________________
सपिण्डीकरणोत्तरं पित्रोः पार्वणमितरेषामेकोद्दिष्टम् । ७१
यमः—
सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः । मातापित्रोः पृथक्कार्यमेकोद्दिष्टं मृतेऽहनि ॥ अत्र पार्वणैकोद्दिष्टयोः समबलत्वाद्व्रीहियवद्विकल्पः । सचाचाराद्व्यवस्थित इति सर्वनिबन्धकारसम्मतः । अत एव दाक्षिणात्याः पार्वणं कुर्वते मैथिलादयोऽन्ये एकोद्दिष्टमिति । ये एकोद्दिष्टं कुर्वन्ति तेषामपि कचित्पार्वणमेव ।
अमावास्या क्षयो यस्य प्रेतपक्षोऽथवा पुनः । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन ॥ इति शङ्खोक्तेः । वार्षिकादावपि -
पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत् ॥ इति धौम्यवाक्येन प्राप्तानां मातामहानां व्यावृत्ति
कुरुते --
कात्यायनः,
कसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षडितिस्थितिः । इति । कर्षसमन्वितम् = सपिण्डीकरणम् । सन्न्यासिनां स्वाfores प्येकोद्दिष्टं न कार्यम् ।
एकोद्दिष्टं यतेर्नास्ति त्रिदण्डग्रहणादिह । सपिण्डीकरणाभावात्पार्वणं तस्य सर्वदा ||
इति प्रचेतोवचनात् । अत्र त्रिदण्डग्रहणमेकदण्डस्याप्युप
लक्षणम् ।
चतुर्थमाश्रमं गच्छेद्रह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसङ्गविवर्जितः || इति चतुर्विंशतिमतात् । साम्वत्सरिकं प्रकृत