SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम्इति गर्गोक्तः । आब्दिके-वर्षवद्ध्यादौ । पितृकार्य श्राद्धादौ । चान्द्रः अमान्तः । चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः। एकराशी रवियोवस्कालं मासस्तु(१) भास्करः ॥ इति माधवीये ब्रह्मसिद्धान्तात् । अथ यदा मलमा. समृतस्य कालान्तरे पुनः कदाचित्स एव मळमासो भवेचदा मलमास एव प्रत्यान्दिकं कार्यम् । मलमासमृतानां तु यच्छादं प्रतिवत्सरम् । मलमासे तु तत्कार्य नान्येषां तु कदाचनः ॥ इति माधवीये भृगुक्त। वर्षे वर्षे तु यच्छाद्धं मृताहे तु मलिम्लुचे । .. कुर्यात्तत्र प्रमीतानामन्येषामुत्तरत्र तु ॥ इति सत्यपादवाक्याच । यत्तु-- मलमासे मृतानां तु सौरं मानं समाश्रयेत् । स एव दिवमस्तस्य श्राद्धपिण्डोदकादिषु ।। इति हेमाद्रिधृतव्यासवचनं, तदेतत्परमेवेति विवेचनसिन्धुश्रीमयूखकाराः । अथ कार्तिकादिक्षयमासे कार्तिक मार्गशीर्षयोः प्रतिसांवत्सरिकमेकदिन एव कार्यम् । एक एव यदा मास: सङ्क्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं मलमासेऽपि शस्यते । इति मदनरत्नलिखितसत्यव्रतवचनात् । मलमासे क्षयमास इत्यर्थः । इत्यस्तु सङ्केपतः प्रसङ्गागतम् । अथ प्रकृतम. नुसरामः । शातातप:-- सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । पतिसम्वत्सरं श्राद्धं छागलेयोदितो विधिः ॥ इति । (१) मासास इति पुस्तकान्तरे पाठः । -
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy