SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नित्याडनिरूपणम् । उद्धृतस्य प्रतिपत्ति:--- कूर्मपुराणे, उद्धृत्य वा यथाशक्ति किश्चिदन्नं समाहितः । वेदतत्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ इति । तत्र कांश्चित्पदार्थाभिषेषतिप्रचेता, नापन्त्रणं न होमश्च नाहानं न विसर्जनम् ।। न पिण्डदान न सुरा न दद्यात्तत्र दक्षिणाम् ॥ इति । अत्र-- उपवेश्यासनं दत्त्वा सम्पूज्य कुसुमादिभिः । निर्दिश्य भोजयित्वा तु किञ्चिहत्त्वा विसर्जयेत ॥ इति तेनैवोक्तत्वाइक्षिणाविकल्पो बोध्यः । व्यास: नित्यश्राद्धे तु गन्धादिजानभ्यर्च्य शक्तितः । सर्वेप्सितगुणान् सम्यक् सहैवोद्दिश्य भोजयेत् ॥ आवाहनं स्वधाकारं पिण्डानाकरणादिकम् । ब्रह्मचर्यादिनियमा विश्वेदेवा न चैवहि ।। इति । एतत्ममादादिवा न कृतं चेद्रात्रौ कार्यम् । रात्रौ प्रहरपर्यन्तं दिवाकृत्यानि कारयेत् । ब्रह्मयज्ञं च सौरं च वर्जयित्वा विशेषतः ।। ' इति सङ्कहोक्तः । यत्र प्रसङ्गेन नित्यश्राद्धं सिद्धयति तत्र पृथक्न कार्यम् । प्रयोगपारिजाते, नित्यश्रादं न कुर्वीत प्रसङ्गायत्र सिध्यति । श्रादान्तरे कृतेऽन्यत्र कर्तव्यमिति निश्चयः ॥ इति ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy