________________
६.६
भविष्ये
दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग्विजः । ततः सन्ध्यामुपासीत यजेश्च्च जुहुयादपि ।। इति ।
अथ नित्यश्राद्धम् ।
श्राद्धचन्द्रिकायाम्
मार्कण्डेयपुराणे
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च । पितृनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा ॥ इति । तच्च यस्स्वयमन्नमत्ति तेनैवान्नेन कार्यम् । तथाच - हेमाद्रौ ब्रह्माण्डे,
यदन्नः पुरुषस्तु स्यात्तदन्नास्तस्य देवताः । नित्यश्राद्धे ततो दद्यादुभुङ्क्ते यत्स्वयमेव हि ॥ अनेन हि निषिद्धाने शाकादिपदार्थानुज्ञा कृता भवति । उत्त
मानसद्भावे तु जघन्यं न दद्यात् । तदाह-देवलः,
अघृतं भोजयन् विप्रं स्वगृहे सति सर्पिषि । परत्र निरयं घोरं गृहस्थः प्रतिपद्यते ॥ मिष्टमनं स्वयं भुक्त्वा पश्चात्कदशनं लघु । ब्राह्मणं भोजयन्विमो निरये चिरमावसेत् ॥ इति ।
व्यासः-
एकमप्याशयेद्विनं षण्णामप्यन्वहं गृही । इति । एतदसमर्थस्य । समर्थस्य तु बहवो विमाः पूर्वोक्ता भूयासुः । एकासामर्थ्येऽपि—
कात्यायनः,
अदैवं नास्ति चेदनं भोक्ता भोज्यमथापि वा । अभ्युद्धृत्य यथाशक्त्या किञ्चिदन्नं यथाविधि ॥ पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरेत् । इति ।