________________
श्राद्धे दातृभोकोनियमः। नच च्छन्दांस्यधीयति तस्य श्रादं प्रचक्षते ॥ . शातातपः--
श्रादं दत्वा च भुत्का च मैथुनं योऽधिगच्छति ।
भवन्ति पितरस्तस्य तं मासं रेतसांभुजः।। जापालि:
ताम्बूलं दन्तकाष्ठं च स्नेहस्नानमभोजनम् ।
रत्यौषधिपरान्नानि श्राद्धकता तु वर्जयेत् ।। वृद्धमनु:
निमन्त्र्य विनांस्तदहवर्जयेन्मैथुनं क्षुरम् ।
प्रमत्ततां च स्वाध्यायं क्रोधाशाचे तथानृतम् ।। बाराहे
न शक्रोति स्वयं कर्तुं यदा बनवकाशतः । श्राद्धं शिष्येण पुत्रेण तदान्येनापि कारयेत् ।।
नियमानाचरेत्सोऽपि विहितांश्च वसुन्धरे ! । इति । हारीत:
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रति ग्रहं होमं श्राद्धभुक्त्वष्ट वर्जयेत् ॥ एतेषामवर्जने दोषमाह - स एव,
अध्वनीनो भवेदश्वः पुनर्भुग्वायसः स्मृतः । कर्मकुन्जायते दासो दरिद्रस्तु प्रतिग्रहात् ॥ .. क्षयी भवति होमेन सूकरो मैथुनेन च ।
आयुश्चैव क्षयं याति दानं भवति निष्फलम् ॥ मास्ये
पुनर्मोजनमध्वानं भारमायासमैथुनम् । श्राद्धकुच्छादभुक् चैव सर्वमेतद्विवर्जयेत् ॥ स्वाध्याय कळहं चैव दिवास्वापं च सर्वदा । इति । ९ श्रा० ०