________________
६४
श्राद्ध चन्द्रिकायाम्
जातूकर्ण्यः,
अहन्येव तु भोक्तव्यं कृते श्राद्धे द्विजन्पभिः । अन्यथा ह्यासुरं श्राद्धं परपाके च सेविते । अथासगोत्र श्राद्धे शेषानं न भोक्तव्यमित्याह जाबालिः,
विप्रस्त्वन्यगृहे श्राद्धशिष्टान्न भोजनं चरेत् । प्राजापत्यं विशुद्धिः स्यात् ज्ञातिगोत्रे न दोषकृत् ॥
स एव
श्वरस्य गुरोर्वापि मातुलस्य महात्मनः । ज्येष्ठभ्रातुश्च पुत्रस्य ब्रह्मनिष्ठस्य योगिनः ॥ एतेषां श्राद्धशिष्टान्नं भुक्त्वा दोषो न विद्यते । इति । श्राद्धदिने उपवासनिषेधमाह-
देवलः,
श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्तेऽथ कदाचन । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ इति । नित्योपवासप्राप्तौ व्यासः,
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवास तदा कुर्यादाघ्राय पितृसेवितम् ॥ इति । अत्र नित्य इत्यविवक्षितम् अनुवाद्यविशेषणत्वात् । अतः काम्योपवासेऽप्याघ्रेयमेव ।
अथ श्राद्धदातृभोक्रोर्नियमः ।
गौतमः -
भोक्ष्यन्करिष्यन्यः श्राद्धं पूर्वरात्रौ प्रयत्नतः । व्यवायं भोजनं चैव ऋतौ चापि विवर्जयेत् ॥ पूर्व रात्रौ = श्राद्धादात्पूर्व रात्रौ ।
मनुः
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा ।