________________
श्राद्धे वैश्वदेवकालनिरूपणम् ।
६३
इति परिशिष्टाच । दर्श साग्नेर्विशेषमाहलौगाक्षिः,
पक्षान्तं कर्म निर्वयं वैश्वदेवं च साग्निकः ।
पिण्डयझं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः ॥ इति । पक्षान्तं कर्मान्वाधानम् । अनु पश्चापिण्डपितृयज्ञादायिते क्रियते इसन्वाहार्य दर्शश्राद्धम् । अत्र वैश्वदेवस्यान्वाधानपि. ण्डपितृयज्ञयोर्मध्ये विधानादेव साग्निकर्तुत्वे सिद्ध सानिकपदोपादानं श्रौताग्निमत एव ग्रहणार्थम् । पिण्डपित्यज्ञाकरणे प्रायश्चित्तमाहकात्यायनः,
पितृयज्ञात्यये चैव वैश्वदेवात्ययेऽपि च ।
भोजने पतितान्नस्य चरुवानरो भवेत् ॥ इति । सर्वेषां भोजनं तु श्राद्धशेषेणैव न तु वैश्वदेवनिमित्तपृथपाकशेषेण ।
ततश्च वैश्वदेवान्ते सभृयः सहबान्धवः ।
भुञ्जीतातिथिसंयुक्तः सर्व पितृनिषेवितम् ॥ इति मात्स्यात् ।
प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । इति याज्ञवल्क्यवाक्याच । नन्वयं भोजनविधिरुत रा. गप्राप्तभोजनानुवादेन श्राद्धशेषविधिः । तत्र भोजनस्य रागतो नित्यमप्राप्तेनित्यवच्छवणाभावान श्राद्धशेषविधेिर्वक्तुं शक्यः । अतः पयोव्रतं ब्राह्मणस्येतिवत्प्रकरणाच्छाद्धाङ्गत्वेन भोजनक्रि. यैव विधीयते । इतरथात्रापि व्रतानुवादेन पयस एत्र विधिः स्यात् । भोजनं च यदा ब्राह्मणैः शेषमन्नमभिमतं तदा, शेषाभा. वाल्लुप्यते न्यायात् , तथापि श्राद्धकर्तुस्तहिने उपवासे देवल. वचनेन दोषश्रवणापाकान्तरमुत्पाद्य कार्यमेव अशेषनाशे आ. ज्येन स्विष्टकृयाग इव । तत्र भोजनकालमाह