________________
श्राडचन्द्रिकायाम्(१)श्राद्धान्तरे-एकदेवताके । अन्यत्र-भिनदेवताके वार्षिकादिके कृते कार्यमिति निश्चयः । तच्च वार्षिकादिके श्रादाबशेषेणैव कार्यम् ।
ततो नित्यक्रियां कुर्याद्रोजयेच्च तथातिथीन् ।
ततस्तदन्नं भुञ्जीत सहभृत्यादिभिनरः ॥ इति हेमाद्रौ मार्कण्डेयपुराणे श्राद्धसमाप्तौ पृथक्पाकमनुकैव वैश्वदेवनियश्राद्धरूपनित्यक्रियायाः श्रादशेषाभेनाभ्य
नुज्ञापनात् ।
अथ क्षयाहश्राद्धम् । हेमाद्रौ ब्रह्मपुराणे
प्रातसम्वत्सरं कार्य मातापित्रोमृतेऽहनि । पितृव्यस्याप्यपुत्रस्य भ्रातुज्येष्ठस्य चैवहि ॥ इति ।
भ्रातुरित्यत्राप्यपुत्रस्येत्यनुषअनीयम् । माधवीये भविष्यपुराणप्रभासखण्डयो:--
मृतेऽहनि पितुर्यस्तु न कुर्याच्छाद्धमादरात् । मातुश्चैव वरारोहे ! वत्सरान्ते मृतेऽहनि ॥ नाहं तस्य महादेवि ! पूजां गृह्णामि नो हरिः । न ब्रह्मा न च वै रुद्रो न चान्ये देवतागणाः ॥
तस्माधवेन कर्त्तव्यं वर्षे वर्षे मृतेऽहनि ॥ इति । तत्र क्षयाहनिरुक्तिरुक्का-- हेमाद्री व्यासेन,
मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियतेऽहनि । प्रसन्दं तु तथाभूतं क्षयाहं तस्य तस्य तं विदुः ॥
अत्र मासशब्देन मृततिथेमुंततिथिपर्यन्तं त्रिंशत्तिथ्यात्मक चान्द्रो मासो विवक्षितः । तथाच माधवीयेसिद्धान्तशिरोमणी, (१) पतदारभ्य निश्चय इति पर्यन्तं पुस्तकान्तरे नास्ति ।