SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्राद्धे वैश्वदेवकालनिरूपणम् । अतिदरिद्रस्य दक्षिणोक्ता सौरपुराणे-- यज्ञोपवीतमथवा ह्यतिदारिद्यपीडितः। प्रदद्यादक्षिणार्थ वै तेन स्यात्कर्म सगुणम् ॥ दक्षिणादाने क्रममाह वृद्धमनुः, दक्षिणां पितृविशेभ्यो दद्यात्पूर्व ततो द्वयोः । इति । द्वयोः वैश्वदेविकविषयोः । जमदग्निः, सर्व कर्मापसव्येन दक्षिणादानवर्जितम् । अपसव्यं तु तत्राह मत्स्यो हि भगवान्मनुः ॥ अतोऽत्र विकल्प:विष्णुः, मन्त्रहीनं क्रियाहीनं सम्पद्धीनं द्विजोत्तमाः!। श्राद्धं सम्पूर्णतां यातु प्रसादाद्भवतां मम ॥ इति । अथ वैश्वदेवः। तत्कालो हेमाद्री ब्रह्माण्डपुराणे, वैश्वदेवाहुतीरमावर्वाग्ब्राह्मणभोजनात् । जुहुयाद्भूतयज्ञादि श्राद्धं कृत्वा तु तत्स्मृतम् ॥ इसका काळः । अग्ब्रिाह्मणभोजनादित्यनेनाग्नौकरणानन्तरं वै. श्वदेवाहुतीहुनेदित्युक्तमिति हेमाद्रिः। द्वितीयो भविष्ये, पितृन्सन्तर्प्य विधिवद्भलिं दद्याद्विधानतः । वैश्वदेवं ततः कुर्यात्पश्चाब्राह्मणभोजनम् ॥ इति । बलिशब्दार्थस्तत्रैवोक्तः ये अग्निदग्धामन्त्रेण भूमौ यनिक्षिपेद्बुधः । जानीहि तं बलिं वीर ! श्राद्धकर्मणि सर्वदा ॥ तृतीयोऽपि तत्रैव कृत्वा श्राद्धं महाबाहो ब्राह्मणांश्च विमृज्य च । वैश्वदेवादिकं कर्म ततः कुर्यानराधिप ! ॥ इति ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy