________________
श्राडचन्द्रिकायाम्उक्तं चैतत् प्रतापनारसिंहाख्यग्रन्थे,
अकृते पिण्डदाने तु ब्राह्मणो वमते यदि । पुनः पाकं च वै कृत्वा श्राद्धं कुर्यात्प्रयत्नतः ॥ इति । अत्र मूलं मृग्यम् ।
अथ दक्षिणादानम् । हेमाद्रौ सौरपुराणे,
बहीभिर्दक्षिणाभिर्यः श्राद्ध प्रीणयते द्विजान् । स पितृणां प्रसादेन याति स्वर्गमनन्तकम् ॥ अशक्तस्तु यथाशत्त्या श्राद्धे दद्यात्तु दक्षिणाम् । अदक्षिणं तु यच्छादं हियते तद्धि राक्षसैः ॥
दक्षिणाद्रव्याणि । मत्स्यपुराणे
सतिलं नामगोत्रेण दद्याच्छत्त्या च दक्षिणाम् । गोभूहिरण्यवासांसि यानानि शयनानि च ॥ दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च । वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमाचरन् । नामगोत्रेण सम्प्रदानस्यात्मनश्च नामगोत्रोच्चारणेने यर्थः । नामगोत्रे समुच्चार्य सम्प्रदानस्य चात्मनः ।
सम्पदेयं प्रयच्छन्ति कन्यादाने तु पुत्रयम् ॥ इति व्यासोक्तः। पहिपुराणे
भत्त्याय दक्षिणा देया श्राद्धकर्माण शक्तितः । सुवर्णरत्नवासांसि रजतं भूषणानि च ॥ अनडुहो महिण्यश्च विविधान्यासनानि च । येन येनोपयोगोऽस्ति विप्राणामात्मनस्तथा ॥ तत्वत्पदेयं श्राद्धेषु दक्षिणार्थ हितैषिणा । इति ।