SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्राद्धे विप्रवमने कर्तव्यम् । ५९ उच्छेषणं तु तनिष्ठेद्यावाद्विप्रा विसर्जिताः। ततो गृहवाल कुर्यादिति धर्मो व्यवस्थितः ॥ इति । तत्पतिपत्तिमाह जातूकण्यः, द्विजभुक्तावशिष्टं तु सर्वमेकत्र संहरेत् । शुचिभूमौ प्रयत्नेन निखन्याच्छादयेद्बुधः ।। ब्रह्माण्डे शुद्धाय चानुपेताय श्राद्धोच्छिष्टं न दापयेत् । यो दद्याद्रागतो मोहान्न तद्गच्छति वै पितॄन् । बृहस्पतिः भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः । तदनममुरैर्मुक्तं निराशैः पितृभिर्गतम् ॥ इति । अथ विप्रवमने। अथ श्राद्धे पिण्डदानात्माक् ब्राह्मणवमने विशेष उक्त:सङ्ग्रहे, अकृते पिण्डदाने तु भुनानो ब्राह्मणो वमेत् । पुनः पाकात्तु कर्तव्यं पिण्डदानं यथाविधि ॥ इति । अत्र पुनः पाकविधानेन श्राद्धस्य पुनरावृत्तिर्विधीयते । तदुक्तम्तत्रैव, अकृते पिण्डदाने तु पिता यदि वमेत्तदा । तदिने चोपवासं च पुनः श्राद्धं परेऽहनि ॥ एतच्च प्रतिसावत्सरिक विषयम् । अमावास्यादौ तदेव आमश्राद्धं कार्यम् । तदाह -मरीचिः, श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादि नियतं माससंवत्सराहते ॥ इति । अत्र पूर्वोक्तवचने पिता यदि वमेदिति पितुर्ग्रहणात् पिता. महप्रपितामहायब्राह्मणवमने न दूषणं न च श्राद्धात्तिरिति ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy