________________
श्राद्धे पिण्डप्रतिपत्तिनिरूपणम् ।
आकाशं गमयेत्पिण्डं जलस्थो दक्षिणामुखः । इति । अनेक भार्यापक्षे छागलेयः - प्राचीनावीतमामन्त्र्य पत्नीपिण्डो विभज्यते । प्रतिपन्यस्य मन्त्रस्य कर्त्तव्यावृत्तिरत्र तु ॥ इति । पत्नीविशेषनिषेधः स्मृत्यन्तरे
अक्षता गुर्विणी बन्ध्या गतरक्ता रजखला | नाश्नीयान्मध्यमं पिण्डं जारिणी च प्रसूतिका ॥ इति । न विद्यते क्षतं रजो यस्याः साऽक्षता ।
सङ्ग्रहे
षट्कयोगे तु पिण्डानां प्राशनं मध्ययोर्द्वयोः । इति । मनुरपि
पतिव्रता धर्मपत्नी पितृपूजन तत्परा । मध्यमं तु ततः पिण्डद्वयमद्यात्सुतार्थिनी ॥ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ इति । गृह्यपरिशिष्टे - बीरं मे दत्त पितर इत्यादायेति । इदं चादानं भर्तुरेव न तु पत्न्याः यभवचनेन पत्न्यै भर्तृकर्त्तकस्य दानस्य विहितत्वात् । कामनाविशेषेहेमाद्रौ ब्रह्माण्डे,
पिण्डमग्नौ सदा दद्याद्भोगार्थी प्रथमं नरः । पत्न्यै प्रजार्थी दद्याद्वै मध्यमं मन्त्रपूर्वकम् । उत्तमां गतिमन्विच्छन् गोषु निसं प्रयच्छति । आज्ञां प्रजां यशः कीर्तिमप्सु पिण्डं प्रवेशयेत् ॥ प्रार्थयन्दीर्घमायुष्यं वायसेभ्यः प्रयच्छति । सौकुमार्यमथान्विच्छन् कुक्कुटेभ्यः प्रयच्छति ॥
आकाशं गमयेदप्सु स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा दिक् तथैव च ॥ इति ।
८ श्रा० चं०