________________
५४
श्राद्धचन्द्रिकायाम्
____ स्पयन लेखामुल्लिखेत् अपहता असुरा रक्षांसि वेदिषद इति तामभ्युक्ष्य सकृदाच्छिन्नैर्दभैरवस्तीर्य प्राचीनावीती लेखां त्रिरुदकेनोपनयेच्छुन्धन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहा इति तस्यां पिण्डान् निपृणीयात्पराचीनपाणिः पित्रे पितामहाय प्रपितामहायैतत्तेऽसौ ये च त्वामत्रानु इति ।
फ्याभावे कुशैलेखाकरणम् । तदुक्तम्ब्रह्माण्डे,
वज्रेण वा कुशैर्वापि उल्लखेत महीं द्विजः । इति । वज्रास्फ्यः । एकेन प्रयत्न छिन्नाः कुशाः सकृदाच्छि. नाः । अत्र-पड्दैवत्यादिश्राद्ध
योज्यः पियादिशब्दानां स्थाने मातामहादिकः । इत्यापस्तम्बोक्तर्मातामहादिवर्गस्यापि सम्बन्धनामगोत्राणि प्रयोज्यानि । बङ्घचानामवनेजनमन्त्रे शुन्धन्तां पितर इत्या. दिके शुन्धन्तां मातरः शुन्धन्तां मातामहा इत्यादिरूहस्तस्मिन्म पितामहप्रपितामहोपादानेन पितृशब्दस्य जनकपरत्वात् । ये च त्वामितिमन्त्रे मातृवर्गे याश्च स्वामित्यूह इति हेमाद्रिः। अत्र हेतात ! एतत्पिण्डरूपमन्नं ते तुभ्यं ये चान्येऽत्र वामनु यान्ति तेभ्यश्चेति मन्त्रार्थः । अनुयायिनश्च पुंसां पुमांसः स्त्रीणां स्त्रिय एवेति प्रमाणाभावात्स्त्रीणामपि पुरुषानुयायित्वस्य पुरुषाणामपि स्यनुयायित्वस्य च सम्भवात् हेमाद्रयुदाहृत ऊहो न का. यः। एवं 'तिलोसि"अत्रपितरः"अमीमदन्तपितरः"एतद्वः पितर' 'नमो वः पितरः मनोन्याहुवामहे परेतनपितर इत्यादिमन्त्रगतपि. वृशब्दस्य सपिण्डीकरणजन्यापतृभावपरत्वात्मकृतिवन्मातृमाताम. हादिश्रादेऽपि समवेतार्थस्वादर्थान्तराभावादनूह इति हृदयम् । असावित्यनेन सम्बन्धनामगोत्रग्रहणं ज्ञाप्यते ।(१) (१) अत्र-पिण्डदानं सन्यं जान्वाच्य कार्यम् ।