________________
श्राद्धे पिण्डदाननिरूपणम् ।
श्रावयेदन्नमीमदन्तेति च सम्पन्नं पृष्वेति । अथ पिण्डदानम् |
तत्कालमाहाश्वलायनः, भुक्तवत्स्वनाचान्तेषु पिण्डाभिद -
ध्यादाचान्तेष्वेके इति ।
सर्वश्राद्धेषु भोजनोत्तरमेवेति ग्रन्थकृतः । तद्देशमाह -
याज्ञवल्क्यः,
सर्वममुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥
उच्छिष्टसन्निधिलक्षणमुक्त पत्रिणापितृणामासनस्थानादग्रतस्त्रिष्वरनिषु । उच्छिष्टसन्निधानं तन्नोच्छिष्टासनसन्निधौ ॥ सार्धद्वाविंशत्यङ्गुलात्मकोडरनिः । अत्र विशेषपाह—
देवलः,
-
उपलिप्ते शुचौ देशे स्थानं कुर्वीत सैकतम् ।
मण्डलं चतुरस्रं वा दक्षिणावनतं महत् ॥
स्थानं वेदिः । इदं च वेदिकरणं येषां सूत्रे वेदिरुक्ता तान्यस्येव । इतरान्प्रति
मारस्ये,
सुपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा । पिण्डान्दद्यादितिशेषः । अत्र महीपृष्ठाधारत्वविधानाद्वज्रवैडूर्यमवालाइमदारुशुक्तत्यादिरचिते स्थळे पिण्डदानं न कार्यमिति महर्षितात्पर्यम् । असावुच्छिष्टसन्निधिरूपः पिण्डदानदेशस्त्वननेः साग्निस्त्वग्निसमीपे पिण्डान्दद्यादिति । (१) तदिति कर्त्तव्यतामा - हाइवलायनः
पिण्डस्थानमाह - शाङ्खायनः,
(१) अत्र - अनेक देवस्यश्राद्ध पित्रादिपिण्डानां पश्चिमभागे मात्रादिभ्यो देयमिति । पुस्तकान्तरेइधिकः पाठः ।