________________
श्राद्धचन्द्रिकायाम्
अत्रापि भोजनं तावतोऽन्नस्यैव । भोजनभाजनस्यैव स्पर्क त्वाहव्यासः,
उच्छिष्टोच्छिष्टसंस्पर्श स्पृष्टपात्रं विहृत्य च ।
सर्वान्नं पूर्ववक्षिप्त्वा भोजयेत्तु द्विजोत्तमम् ॥ इति । हेमाद्रावत्रि:
हुङ्कारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान्वदेत् । भूतलाचोद्धरेत्पात्रं मुश्चेद्धस्तेन वापि तत् ॥ प्रौढपादो बहिःकक्षो बहिजानुकरोऽथवा । अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥ पीतावशिष्टं तोयादि पुनरुद्धृत्य वा पिवेत् । खादितार्धात् पुनः खादेन्मोदकानि फलानि वा ॥ मुखेन वा धमेदनं निष्ठीवेद्भाजनेऽपि वा।
इस्थमश्नन् द्विजः श्राद्धं हत्वा गच्छत्यधोगतिम् ॥ इति । उसना,
भोजनं तु न निशेषं कुर्यात्माज्ञः कथश्चन ।
अन्यत्र दनः क्षीराद्वा क्षौद्रासक्तुभ्य एव च ॥ वृद्धशातातपः
अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजो मृढः स भवेपितृघातकः ॥
यत्तु
श्राद्धे द्विजो नैव दद्यान याचेन्नैव दापयेत् ।
इति वचस्तदयाचितद्रव्यविषयम् । प्रचेता:
भुञ्जानेषु तु विप्रेषु ऋग्यजुःसामलक्षणम् ।
जपेदभिमुखो भूत्वा पित्र्यं चैव विशेषतः ॥ . भोजनोत्तरकृत्यमाहाश्वलायन:-तृप्तान ज्ञात्वा मधुमती: