________________
श्राद्धे पिण्डदाननिरूपणम् । ५१ मधुव्वाता इति ब्यूचं मध्वित्येतश्चिकं तथा ॥ • अत्र पारस्करवचनं बचपरम् , प्रचेतोवचनं तदन्यपरं बोध्यम् ।
उपवीत्यनेषु मधु सर्वािसिच्य सप्रणवव्याहृति सा. वित्री मधुमतीश्च जपित्वा मध्विति च त्रिरुत्वा पितृननुस्म. त्यापोशानं दत्त्वाफः प्रदाय ब्राह्मणान्यथासुखं जुषध्वमिति भोजनायातिसृजेत् । इति बवृचगृह्यपरिशिष्टात् । याज्ञवल्क्या
सव्याहृतिकां गायत्री मधुबाता इति व्यचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः॥ - यथासुखमित्यनन्तरं जुषधमितिशेषः पुरणीयः । वा. ग्यता वाचायताः नियताः अधिकं न वदेयुरियर्थः। न तु मौनिनः अनुपदम् "अपेक्षित याचितव्यं" इति वक्ष्यमाणवचन. विरोधात । श्राद्धभोक्तारो बलि न दद्युः ।
दत्ते वाप्यथवादत्ते भूमौ यो निक्षिपद्धलिम् । तदनं निष्फलं याति निराशैः पितृमिर्गतम् ॥ इति पराशरमाधवधृतात्रिवचनात् : दत्ते-त्यक्तं अ. दत्ते अत्यक्ते । पाराशरीये
श्राद्धपतौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तदन्नमत्यजन्भुक्त्वा गायध्यष्टातं जपेत् ॥ तदन-पात्रगतम् । स्पर्शोत्तरमन्यदन्नं न गृह्णीयादिति फ. लितोऽर्थः । उच्छिष्टान्नेन स्पर्श तुस एव,
उशिष्टलेपसंस्पर्श प्रक्षाल्यान्येन वारिणा। " भोजनान्ते नरः स्नात्वा गायत्रीत्रिशतं जपेत् ॥ इति ।