________________
५०
श्राद्धचन्द्रिकायाम्
पराशर:
सर्वदा च तिला ग्राह्याः पितृकृत्ये विशेषतः । भोज्यपात्रे तिलान् दृष्ट्वा निराशाः पितरो गताः ॥ काष्र्णाजिनि:--
---
दर्ज्या देयं भृतानं च समस्तव्यञ्जनानि च । उदकं (१) यच्च पकाचं नो दय दातुमिच्छति ।। स चोरः स च पापिष्ठो ब्रह्मन्नं तं विनिर्दिशेत् ।
सङ्ग्रहे
हस्तदत्तं तु नाश्नीयाल्लवणं व्यञ्जनं तथा । अपर्क तैलपकं च हस्तेनैव प्रदयिते ॥ घृतपात्रस्थापने विशेषो—
मदनरत्ने, घृतादिपात्राणि भूमौ स्थापयेन्न भोजनपात्र ग्रन्थान्तरे -
ओदने परमाने च पात्रमासाद्य मुग्धधीः । घृतेन पूरयेत्पात्रं तद्घृतं रुधिरं भवेत् ॥ एवंविधपरिवेषणानन्तरं कर्त्तव्यमाह
पारस्करः,
सङ्कल्प्य पितृदेवेभ्यः सावित्रीमधुमज्जपः । श्राद्धं निवेद्यापोशानं जुषमैषोऽथ भोजनम् ॥ सङ्कल्पप्रकारस्तु प्रयोगे वक्ष्यते । अत्र अन्नसङ्कल्पोत्तरं गायत्री जपपूर्वकं मधुपतीः पठित्वापोशनार्थं जलं दत्त्वा जुषध्वमिति प्रेषेण भोजनानुज्ञापनं कार्यमिति वचनार्थः । एवं चात्र सावित्री जपानन्तरमपोशानदानमुक्तम् । विपरीतमाह
प्रचेताः,
अपोशानं प्रदायाथ सावित्रीं त्रिजपेदथ ।
(१) अत्र यवपक्वान्नमिति पा० द्वि० पु० ।
-