________________
श्राद्धचन्द्रिकायाम्
शङ्ख,
आदित्या वसवो रुद्रा ब्रह्मेन्द्रार्कनिशाकराः ।
मण्डलान्युपजीवन्ति तस्मात्कुर्वीत मण्डलम् ।। बौधायनः--
चतुरस्रं त्रिकोणं च वर्तुल चादचन्द्रकम् ।
कर्तव्यमानुपूयण ब्राह्मणादिषु मण्डलम् ॥ बचपरिशिष्टे-दैवे चतुरस्रं पित्ये वृत्तमिति । तत्साधनानि ब्राह्मे--
मण्डलानि च कार्याणि नीवारैः सक्तुभिः शुभैः ।
गौरमृत्तिकया वापि भस्मना गोमयेन वा ॥ इति । तनिर्माणपकारः स्मृत्यन्तरे
नैर्ऋती दिशमारभ्य ईशान्यन्तं समापयेत् । तामेव दिशमारभ्य दैविकस्य तदन्तिके । ईशानी दिशमारभ्य नैऋत्यामप्रदक्षिणम् । तामेव दिशमारभ्यपैतृकस्य तदन्तिके । मण्डलाकरणे दोषश्रुतिःमार्कण्डेयपुराणे,
यातुधानाः पिशाचाश्च क्रूराश्चैव च राक्षप्ताः ।
हरन्ति रसमन्नस्य मण्डले हि विवर्जिते । श्राद्धदीपकलिकायां मात्स्ये--
अकृत्वा भस्ममर्यादां यः कुर्यात्पाणिशोधनम् । आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठति ॥ इति सङ्केपः ।
अथाग्नौकरणम् । हेमाद्रौ याज्ञवल्क्या,
अग्नौकरिष्यनादाय पृच्छेदनं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वामौ पितृयज्ञवत् ॥