SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्राद्धे मण्डलकरणम् । ४५ निमन्त्रिताभ्यः स्त्रीभ्यो ये ते स्युः सौभाग्यसंयुताः ॥ चण्डाकानि स्त्रीपरिधानोचितान्यंशुकानीति हेमाद्रिः । (१) ब्रह्माण्डे -- नामापि न ग्रहीतव्यं नीळीरक्तस्य वाससः । दर्शनात्कीर्त्तनान्नील्या निराशाः पितरो गताः ॥ इत्याच्छादननिरूपणम् । पूर्व वस्त्रप्रतिनिधित्वेनोपवतदानमुक्तमधुना सत्यपि वस्त्रे गन्धपुष्पादिवन्मुख्यतयैव यज्ञोपवीतं दातव्यमित्युच्यते । हेमाद्रावादित्यपुराणे - पितृन्सस्कृत्य वासोभिर्दद्याद्यज्ञोपवीतकम् । यज्ञोपवीतदानेन विना श्राद्धं तु निष्फलम् ॥ तस्माद्यज्ञोपवीतस्य दानमावश्यकं स्मृतम् । इति । (२) कालिकापुराणे निर्वर्त्य ब्राह्मण | देशात्क्रियामेवं यथाविधि । पुनर्भूमिं च संशोध्य पलेरन्तरमाचरेत् ॥ भाजनानि ततो दद्याद्धस्तशौचं पुनः क्रमात् । भूशोधनमर्चनप्रसङ्गात्पतितगन्धपुष्पदर्भापनयनम् । अन्तरं= त्रिच्छित्तिः । भोजनपात्राघोभूमौ मण्डलमाह - (१) अत्र - स्त्रीश्राद्धेषु प्रदेयाः स्युरलङ्कारास्तु योषिताम् । मञ्जीरमेखलादानकर्णिकाकङ्कणादयः ॥ तथाञ्जनशलाकाश्च केशानां च प्रसाधनम् । इत्यधिकं द्वि० पु० । ( २ ) अत्र - एतच्च वैश्वदेवं काण्डमुदङ्मुखः पित्र्यं दक्षिणा. मुखः कुर्यात् । उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानतः ॥ इति शातातपवचनात् । इत्यधिकं द्वि० पु० ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy