SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् मण्डलार्थमित्यर्थः । एवंविधं मण्डलं सम्पूज्य तत्र विप्रपाद प्रक्षालनं विदध्यादिति प्रोक्तं मारस्ये, 44 अक्षताभिः सपुष्पाभिः तदभ्यर्थ्यापसव्यवत् । विप्राणां क्षालयेत्पादावभिवन्द्य पुनः पुनः ॥ इति । वृद्धवसिष्ठः न कुशग्रन्थिहस्तस्तु पाद्यं दद्याद्विचक्षणः । गोविन्दार्णवे व्यासः, ग्रन्थिर्यस्य पवित्रस्य विप्रपादाभिषेचने । यथा वज्रहतो वृक्षो देवताः पितरस्तथा ॥ इति । घृतादिनाभ्यक्तपादयोः पाद्यं देयम् । तथाचश्रीरामाय बे, पादशौचमनभ्यङ्गं तिलहीनं च तर्पणम् । तत्सर्वं त्रिजटे ! तुभ्यं यच्च श्राद्धमदक्षिणम् ॥ इति । एतच्चासीनानां कार्यम् । पादप्रक्षालनं कार्यमुपवेश्यासने द्विजान् । तितां क्षालनं कुर्याभिराशाः पितरो गताः ॥ इति सङ्ग्रहात् । स्वयमप्यासीनेन कार्यम् । तिष्ठन्प्रक्षालयेत्पादौ दैवे पिये च कर्मणि । देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा ॥ इति गौतमोरनिष्टश्रवणात् । एतच्च प्रत्यङ्मुख एवं कुर्यादिस्याहवसिष्ठः, दिवा वा यदि वा रात्रौ न कुर्यात्प्राङ्मुखः शुचिः । प्रत्यक्मुखस्तु कुर्वीत विप्रपादाभिषेचनम् ॥ इति । रात्राविति तीर्थश्राद्धाभिप्रायेण ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy