SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रादिने पूर्वाह्णकृत्यम् । ततस्तु मण्डले शुद्धे द्विजाः प्रक्षालिताप्रयः । कुर्युराचमनं सर्वे मण्डलोचरतः स्थिताः ॥ श्राद्धकर्त्ताथ भूयोऽथ समाचम्य यथाविधि । इति । तदनुविषेयमाह - ब्रह्माण्डे, क्रतुः, दर्भपाणिर्द्विराचम्य लघुवासा जितेन्द्रियः । परिमिते शुचौ देशे गोमयेनोपलेपिते ॥ दक्षिणामवणे सम्यगाचान्तान्प्रणतान्शुचीन् | आसनेषु सदर्भेषु विविक्तेषूपवेशयेत् ॥ इति । विविक्तेषु परस्परमसं लग्नेषु । उपवेशनमन्त्रमाहधर्म, जान्वालभ्य ततो देवानुपवेश्य ततः पितॄन् समस्ताभिर्व्याहृतिभिरासनेषूपवेशयेत् ॥ घम: आसनं संस्पृशन्सव्येन पाणिना दक्षिणेन ब्राह्मणमुपसगृह समाध्यमिति चोच्कोपवेशयेत् । पैठीनसि', प्राङ्मुखान्विश्वान्देवानुपवेशयेदासनेषु पितृ दक्षिणपूर्वेणेति । पितृन्दक्षिणस्यां प्राक्संस्थानुपवेशयेदित्यर्थः । ब्रह्माण्डे, ३९ रक्षार्थ पितृसत्रस्य त्रिःकृत्वः सर्वतो दिशम् । तिळांस्तु प्रक्षिपेन्मन्त्रमुच्चार्यापहता । इति ॥ ब्राह्मे, हविषां संस्कृतानां तु पूर्वमेवापवर्जनम् । मुत्संपृक्ताभिरद्भिश्च प्रोक्षणं तु विधीयते ॥ इति । अस्यार्थः । संस्कृतानां निष्पन्नानां हविषां पितृपा कानां पूर्वमादौ अपवर्जनं पतितनयाचाररहितादिदुष्टदृष्टिनिपा
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy