SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् तासां नियम उक्तो नारदीये, अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः सम्बुद्धयः स्मृताः ॥ प्रभासखण्डे यज्ञोपवीतिना कार्य दैवं कर्म प्रदक्षिणम् । प्राचीनावीतिना कार्य पितृकर्माप्रदक्षिणम् ॥ अनुपनीत स्त्री शूद्राणामुपवीतस्थाने तूत्तरीयम् । (१) स्मृत्यन्तरे श्राद्धारम्भे तु ये दर्भाः पादशौचे विसर्जयेत् । अर्चनादौ तु ये दर्भा उच्छिष्टान्ते विसर्जयेत् ॥ मार्जनादौ तु ये दर्भाः पिण्डोत्थाने विसर्जयेत् । उत्तानादौ तु ये दर्भा दक्षिणान्ते विसर्जयेत् ॥ प्रार्थनादौ तु ये दर्भा नमस्कारे विसर्जयेत् । श्राद्धारम्भेऽवसाने च पादशौचार्चनान्तयोः । विकिरे पिण्डदाने च षट्स्वाचमनमिष्यते ॥ आद्यन्तयोस्तु द्विराचामेत् । आद्यन्तयोर्द्विराचामेच्छेषाणि तु सकृत्सकृत् । इति हेमाद्रौ सङ्ग्रहोतेः । जमदग्नि: -- सुक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् । आह्वानं स्वागतं चार्घ्यं विना च परिवेषणम् ॥ विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विमप्रदक्षिणां चैव स्वस्तिवाचनकं बिना ।। पितृनुद्दिश्य कर्त्तव्यं प्राचीनावीतिना सदा । ( १ ) अपसव्यं क्रमाद्वस्त्रं कृत्वा कश्चित्सगोत्रजः । इति ब्राह्म वचनात् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy