SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्राद्धदिने॑ पू॒षाह्णकृ॒त्य॑म् । पातमेदितरं जानु पितॄन्परिचरन्सदा ॥ बौधायनः - शङ्खः प्रदक्षिणं तु देवानां पितॄणामप्रदक्षिणम् । 'देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥ आवाहनार्घ्यसङ्कल्पे पिण्डदानामदानयोः । पिण्डाभ्यञ्जनकाले तु तथैवाञ्जनकर्मणि ॥ अक्षय्यासनपाद्येषु गोत्रं नाम प्रकाशयेत् । तथा क्षणे च पिण्डदाने च गन्धधूपाक्षये तथा । सङ्कल्पे चासने दीप अञ्जनाभ्यञ्जने तथा ॥ अनार्घ्यदानाद्यन्तेषु गोत्रं नाम प्रकाशयेत् । मास्स्ये सम्बन्धं प्रथमं ब्रूयानामगोत्रे तथैव च । पश्चाद्रूपं विजानीयात्क्रम एष सनातनः ॥ स्मृत्यर्थसारे— गोत्रस्य त्वपरिज्ञाने काश्यपं गोत्रमुच्यते । कारिकायाम् नामानि चेन जानीयात्ततेत्यादि वदेत्क्रमात् । नामोच्चारणे विशेषमाह - बौधायनः, शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु । गुप्तान्तं चैव वैश्यस्य दासान्तं शूद्रजन्मनः ॥ गोभिलः - दान्तं नाम स्त्रीणामिति । अविभक्तिकं श्राद्धं व्यर्थमित्याह मारायण', विभक्तिभिस्तु पस्किश्चिदीयते पितृदैवते । सत्सर्वे सफलं ज्ञेयं विपरीतं निरर्थकम् ॥ ३५
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy