________________
श्राद्धे ब्राह्मणनिमन्त्रणादिकम् ।
सक्रियां देशकालौ च शौचं ब्रामणसम्पदम् ।
पञ्चैतान्विस्तरो हन्ति तस्मात्रेत विस्तरम् ॥ सक्रिया अन्नसंस्कारविशेषरूपा । देशो दक्षिणप्रवणादिः । कालः कुतुपापरावादिः । शौचं यजमानद्विजगतं शास्त्रोक्तम् । ब्राह्मणसम्पत् श्रोत्रियस्य पक्लिपावनादेवा लाभः । तथा चायमर्थः । ब्राह्मणबाहुल्यं पञ्चैतान्नाशयति तस्माद्राह्मणबहुल्यं न कार्यम् । यस्तु ब्राह्मणबाहुल्ये सक्रियादिसम्पादने समर्थः स तु हेमायादिमहानिबन्धेषक्तमेकैकस्य स्थाने पिव्ये नव सप्त पञ्च त्रीस्त्रीवा, दैविके दशाष्टषट्चत्वारो वेत्येवंरूपं बाहुल्यमपि कुर्यात् । अत्र वचनानि हेमाद्रयादिषु द्रष्टव्यानि । वृद्धवसिष्ठः
श्राद्धद्वयं करिष्यंस्तु दश वा चतुरोऽपि वा।
न्वा निमन्त्रयेद्विपानेकं वा ब्रह्मवादिनम् ॥ इति । योगीश्वर:
द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा।
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥ इति । पितृमातामहयोः श्राद्धे वैश्वदेविकं कर्म तन्त्रेण वा कार्य मिति तुर्यपादार्थः । अत्यसमर्थ प्रति प्रकारान्तरमाहदेवलः,
एकेनापि हि विप्रेण पापण्डं श्राद्धमाचरेत् । षडान् दापयेत्तस्मै षड्भ्यो दद्यात्तथासनम् ।। इति(१)
षपिण्डमित्यादि दर्शश्राद्धाभिप्रायेण । वसिष्ठोऽपि
अपिवा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलवृत्तसम्पन्नं सर्वालक्षणवर्जितम् ।।
(१) तथा हविरिति पाठो निर्णयसिन्धौ।