SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ सर्वेषां वा भवेद्वाभ्यां पवित्रं ग्रन्थितं नवम् । इति । अथ ब्राह्मणनिमन्त्रणम् । हेमाद्रौ प्रचेतसः स्मृती, कृतापसव्यः पूर्वाः पितृपूर्व निमन्त्रयेत् । भवद्भिः पितृकार्य श्वः सम्पाचं नः प्रसीदत ॥ सव्येन वैश्वदेवार्थान्पणिपत्य निमन्त्रयेत् । निमन्त्रणप्रकारो नागरखण्डेब्राह्मणनां गृहं गत्वा तान् प्रार्य विनयान्वितः । अमुकस्य त्वया श्राद्ध क्षणो वै क्रियतामिति ॥ वदेदभ्युपगच्छेयुर्विपाश्चैवों तथोति च । भूयोऽपि व्याहरेत्कर्ता तं प्राप्नोतु भवानिति ।। द्विजस्तु प्राप्तवानीति विधिरेष निमन्त्रणे । श्राद्धदिनेऽपि निमन्त्रणं कार्यमित्याहमनुः, पूर्वेयुरपरेधुवा श्राद्धकर्मण्युपस्थिते। निमन्त्रयीत ज्यवरान्सम्याग्विमान्यथोदितान् ॥ निमन्त्रणकर्तारो बृहस्पतिस्मृती, उपवीती ततो भूत्वा देवतार्थ द्विजोत्तमान् । __अपसव्येन पित्र्येऽथ स्वयं शिष्योऽथवा सुतः ॥ इति । निमन्त्रयेदितिशेषः । ब्राह्मणसङ्ख्यामाह-- घसिष्ठः, द्वौ दैवे पित्कृत्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृदोऽपि न प्रसज्येत विस्तरे ।। विस्तरेऽधिकब्राह्मणनिमन्त्रणक्रियादिप न प्रसज्येत न प्रवत । विस्तरे दोषमाह - मनुः,
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy