________________
श्राद्धचन्द्रिकायाम्
अस्मिन् पक्षे वैश्वदेविके प्रकारमाह-- स एव,
ययेकं भोजयेच्छाढे दैवं तत्र कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रास्येदन्नं तदनौ तु दद्याद्वा ब्रह्मचारिणे ॥
अस्यार्थः । सर्वस्माच्छ्तादनाकिचित्पात्रान्तरे गृहीत्वा विश्वेदेवोदेशेन पात्रालम्भनपूर्वकं सङ्कल्प्य पश्चानिमन्त्रितविस्य परिवषितमन्नं पित्रुद्देशेन त्यजेत्पश्चाद्देवनिवेदितमन्नं ब्रह्मचारिणे दद्याचदलाभेऽमौ दहेदिति । शङ्खोऽप्याह
भोजयेदय वाप्येकं ब्राह्मणं पक्लिपावनम् ।
दैवे कृत्वा तु नैवेद्यं पश्चात्तस्य तु निर्वपेत् ॥ इति । पक्तिपावनलक्षणमुक्तम्मनुना,
अपाक्लयोपहता पतिः पाव्यते यैर्द्विजोत्तमैः । ताभिबोधत कात्स्न्येन द्विजाग्यान पक्तिपावनान् ॥ इति । (१) विप्रस्य गृहीतश्राद्धनिमन्त्रणत्यागे दोषमाहमनुः,
केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कश्चिदप्यतिक्रामेत्पापः सूकरतां व्रजेत् ॥ इति । केतितशब्दः श्राद्धीयनिमन्त्रणनिमन्त्रितवाचकः ।
कथञ्चिदिति मिष्टानबहुदक्षिणालोभादिना न तु भो. (१) अत्र हारीतः-दैवे वा यदि वा पित्र्ये निमन्व्य ब्राह्मणं यदि ।
तर्पयेन यथान्यायं स तु तस्य फलं हरे॥ प्रमादादिक्षाने प्रयत्नतस्तर्पयित्वा विशेषण तत्फलं प्राप्नुयात् । इत्यधिक पुस्तकान्तरे।