SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्राद्धे धूपदीपभोजनपात्राणां निरूपणम् । २७ उग्रगन्धीन्यगन्धीनि चैत्यक्षोद्भवानि तु । पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥ जलोद्भवानि देयानि रक्तान्यपि विशेषतः । इति । चैत्यवृक्षा=इमशानवृक्षः। अथ धूपदीपौ। विष्णुधर्मोत्तरे धूपो गुग्गुलजो देयस्तथा चन्दनसारजः । अगुरुश्चैव कपूरस्तुरुष्कत्वक् तथैव च । शातातपः हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः। स्था भवति तच्छ्राद्धं तस्मात्तं परिवर्जयेत् ॥ इति । श:घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः । इति । . अथ भोजनपात्राणि । वायुपुराणे पात्रं वै तैजसं दद्यान्मनोज्ञ श्राद्धभोजने । राजतं काञ्चनं चैव दद्याच्छादेषु यः पुमान् ॥ दत्वा स लभते दाता प्राकाम्यं धनमेव च । इति । हैमामावे हारीतः, राजतकांस्यपर्णताम्रपात्राणि कार्याणि । इति । यदा पर्णपात्रं भोजने तदा पालाशमेवेसाहअत्रि, न मन्मयानि कुर्वीत भोजने देवपित्र्ययोः । पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ॥ बोपदेवस्तु स्मृतिसङ्ग्रहमुदाजहार। श्राद्ध पालाशपात्राणि मधुकोदुम्बराणि च ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy