SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २६ श्राद्धचन्द्रिकायाम् हेमाद्रौ भगवतीपुराणे(१) यश्चन्दनेन शुद्धेन सुश्लक्ष्णेन सुगन्धिना । अपि लिम्पति वै विप्रान्स कदाचिन तप्यते ।। तेनैवागुरुमिश्रेण परं सौभाग्यमश्नुते । अरोगश्च विलेपन मुले भोगाननुत्तमान् ॥ यो यक्षकर्दमं दत्ते श्राद्धेषु श्रद्धयान्वितः । स भूपतित्वमासाद्य महेन्द्र इव मोदते ॥ यक्षकर्दमलक्षणंविष्णुधर्मोत्तरे, कर्पूरागरुककोलदर्पकुङ्कुमचन्दनैः। यक्षकर्दम इत्युक्तो गन्धः स्वर्गेऽपि दुर्लभः ॥ इति । कोलो मरिचकको लापरनामकं मुगन्धद्रव्यम् । दर्पः कस्तूरिका । मार्कण्डेय: चन्दनागरुकर्पूरकुमानि प्रदापयेत् । अश्वमेधमवाप्नोति पितृणामनुलेपने ॥ पाने पद्मबिल्वात्तूरपारिभद्राटरूषकाः । न देयाः पितृकार्येषु पयश्चैवाविकं तथा ॥ इति । पारिभद्रो मन्दारः। सायणीये तुलसी शतपत्रं च मृङ्गराजं तथैव च । परुकं मल्लिका चैव पितृणामक्षयं भवेत् ॥ इति । स्मृतिसारे अगस्त्यं मृगराजं च तुलसी शतपत्रिका । : चम्पकं तिलपुष्पं च षडेते पितृवल्लभाः॥ (१) देवीपुराणे इति वि० पु० पाठः ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy