SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्राद्धे वयंपदार्थः। २६ वर्जयेत्तानि वै श्राद्धे यच्च वाचा न शस्यते ॥ वायुपुराणे, अवेदोक्ताश्च नियांसा लवणान्यौखराणि च । श्राद्धकर्मण्यदेयानि याश्च नार्यो रजस्वलाः ॥ रजस्वला::त्रिदिनोत्तरमनिवृत्तरजसः । साध्वाचारा न तावत्स्यात्स्नातापि स्त्री रजस्वला । यावत्पवर्तमानं हि रजो नैव निवर्तते ॥ इति शङ्खस्मृतेः। मनुः कुक्कुटो विड्वराहश्च काकश्चापि विडालकः । वृषलीपतिश्च वृषलः षण्ढो नारी रजस्वला ।। एतानि श्राद्धकाले तु परिवानि नियशः। कुक्कुटः पक्षपातेन हन्ति श्राद्धमसंतम् । घ्राणेन विवराहश्च वायसश्च रुतेन तु । श्या तु दृष्टिनिपातेन मार्जारः श्रवणेन तु ॥ वृषलीपतिश्च दानेन चक्षुभ्यां वृषलस्तथा । छायया हान्त वै षण्डः स्पर्शेन तु रजस्वला ॥ इति । कूर्मपुराणे (१)आढकीकोविदारांश्च पालयां मरिचं तथा । वर्जयेत्सर्वयत्नेन श्रादकाले द्विजोत्तमः ॥ कोविदार:कचनारः । मरिचान्याणि स्वतन्त्रशाकतया प्राप्तानि निषिध्यन्ते न तु संस्कारकद्रव्यत्वेनेति हेमाद्रिः । अथ पितृपूजाद्रव्याणि । (१) आढकी-तुवरी अरहर इति मध्यदेशभाषायाम् । पालल्या मुकुन्दाख्यो गन्धद्रव्यविशेष इति मयखकाराः, पालक इति प्रसिदः शाकविशेष इति सिन्धुकाराः। ४ श्रा० ०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy