________________
श्राद्धचन्द्रिकायाम्
राजमाषानंश्चैव मसूरांस्तु विवर्जयेत् ॥ अणुवीहिभेद: "व्रीहिभेदस्वणुः पुमान्” इतिकोशात् ।
भारद्वाजः,
२४
मुद्गाढकीमाषवर्ज द्विदलानि दद्यादिति ।
मुद्गा=बनमुद्राः । आढकी=वरी । माषा=राजमाषाः षट्त्रिंशन्मते
यावनाला कुलस्थांच वर्णयन्ति विपश्चितः । यावनालः =जोंवला इति हेमाद्रिः ।
भारद्वाज:
-
नक्तोद्धृतं तु यत्तोयं पवळाम्बु तथैव च स्वल्पं च कूष्माण्डफलं वज्रकन्दश्च पिप्पली ॥
ब्रह्मपुरा
C
हिब्यूग्रगन्धापनसं भूनिम्बं निम्बराजिके । (१) कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् ॥ राजिका भाषायां राई इत्युच्यते । अत्र हिङ्गुनो विहितपतिषिद्धत्वाद्विकल्पः । प्राश्वस्तु निषेधवचनं श्वेतहिङ्गुनिषेधक
मिसाहुः । चतुर्विंशतिमते
कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणि । न वर्जयेतिलांश्चैव मुद्द्रमाषांस्तथैव च ॥
मार्कण्डेयपुराणे
-
लशुनं सृञ्जनं चैव पलाण्डुं पिण्डमूलकम् (२) । करम्भं यानि चाम्पानि' हीनानि रसवर्णतः ॥ (३) गान्धारिकामळावूनि लवणान्यौखराणि च ।
(१) कस्तुम्बुरुः = धान्याकः धनिया इति प्रसिद्धः । (२) पिण्डमूलकं = पिण्डाकृति मूलकम् । (३) गान्धारिका=तन्दुलीयकम् ।