________________
श्राद्ध वा पदार्थाः। वायुपुराणे--
भक्ष्यान्वक्ष्ये करम्भं च चटका घृतपूरिकाः । कृसरं मधु सर्पिश्च पयः पायसमेव च ॥
स्निग्धमुष्णं च यो दद्यादमिष्टोमफलं लभेत् । मदनरने कोर्मे--
कालशाकं च वास्तूकं मूलकं कृष्णनालिका। प्रशस्तानीतिशेषः। आदित्यपुराणे
मधुकं रामठं चैव कपरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं त्रपुसं तथा ॥ रामठं-हिङ्गुः । त्रपुसमम्लदधि । वायुपुराणे
(१)कालशाकं महाशाकं द्रोणशाकं तथाईकम् । बिल्वामलकमृद्वीकापनसाम्रातदाडिमम् ।। चव्यं पालिवताक्षोटखजूंरं च कसेरुकम् । कोविदारश्च कन्दश्च पटोलं बृहतीफलम् ॥ पिप्पली मरिचं चैव एला शुण्ठी च सैन्धवम् ।
शर्करागुडकर्पूरबदरीद्रोणपत्रकम् ॥ इति । कार्णाजिनिः,
यदिष्टं जीवतश्वासीत्तद्दद्यात्तस्य यत्नतः । मुतृप्तो दुस्तरं मार्ग ततो याति न संशयः ।।
अथ वयंपदार्थाः । वायुपुराणे
अकृताग्रयणं धान्यजातं वै परिपाटला:(२) । (१) कालशाक-कालिका । आम्रातः=अंवाडा इति प्रसिद्धो वृक्षः विशेषः तत्फलम्। चव्यंचाम इति प्रसिद्धम् । पालिवतं-जम्बीरम्। अक्षोट: अखरोट इति प्रसिद्धः। कन्द-सूरणः।
(२) परिपाटलाः स्थूला राजमाषाः।