SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् सुमन्तुरपि-- पयो दघि घृतं चैव गवां श्राद्धेषु पावनम् । महिषीणां घृतं पाहुः श्रेष्ठं न तु पयः कचित् ॥ देवीपुराणे-- सर्वेषामेव चानानां परमानं च पायसम् । सर्वान्नदः स तु प्रोक्तो येन दत्तं तु पायसम् ॥ सौरपुराणे-- विविधं पायसं दद्याद्भक्ष्याणि विविधानि च । इति । प्रचेता:-- कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशाळयः । (१)महायवा व्रीहियवास्तथैव च मधूलिकाः ॥ कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्रादकर्मणि । "मधुलिका यावनाला" इति हेमाद्रिः। अत्रि:-- तैलपकानरहितं मुद्गमाषविवर्जितम् । अगोधूमं च यच्छ्राद्धं कृतमप्यकृतं भवेत् ॥ ब्राझे-- यवर्तीहितिलैगिोधूमश्वणकैस्तथा । सन्तर्पयेत्पितॄन्मुद्रः श्यामाकै सर्षपद्रवैः ।। नीवारैईरिश्यामाकैः प्रियङ्गुभिरथार्चयेत् । प्रियङ्गु-कङ्गुः । सर्षपा-गौरसर्षपाः। मार्कण्डेयः गोधूमैरिक्षुभिर्मुद्रैः सतीनैश्चणकैरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥ . सतीना-कलायैः। (१)महायवा वेणुबीजानि ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy