________________
श्राद्धे ग्राह्यपदार्थाः ।
आवन्त्यान्मागधांश्चैव ब्राह्मणांस्तु विवर्जयेत् । कचित्प्रतिप्रसवमाह मनुः,
न ब्राह्मणान परीक्षेत दैवे कर्मणि धर्मवित । पित्र्ये कर्मणि तु प्राप्ते परक्षेित प्रयत्नतः ॥
पद्मपुराणे,
तीर्थेषु ब्राह्मणाचैव परक्षित कदाचन । अनार्थिनमनुप्राप्तं भोजयेन्मनुशासनात् ॥ विष्णुधर्मोत्तरे -
अन्नदाने न कर्त्तव्यं पात्राबेक्षणमण्यपि । अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विज ! ॥ परीक्षामकारो मनुस्मृतौ,
शीळं संवत्सराज्ज्ञेयं शौचं सद्व्यवहारतः । प्रज्ञा सङ्कथनाज्ञेया त्रिभिर्विमं परक्षियेत् ॥ इति दिकू ॥ अथ श्राद्धे ग्राह्यपदार्थाः ।
यमः
२१
समूलस्तु भवेद्दर्भः पितॄणां श्राद्धकर्मणि । मूळेन लोकान् जयति शक्रस्य सुमहात्मनः ॥ इति । ब्रह्मपुराये-
हरिताश्च सपिज्जूला स्निग्धाः पुष्टाः समाहिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ सपिञ्जलाः अपृथक्कृतदलाः । समाहिताः = निर्दोषाः । गोकर्णमात्रा=अनुष्ठानामिकाविस्तारदीर्घाः । दर्भ सङ्ग्रह कालस्तु
प्रदर्शितः तिथ्यर्के ।
हेमाद्री पाद्मे-
अनं च सदधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान्पितृनित्यब्रवीदजः ॥