________________
लम्बकर्णलक्षणमाह
गोभिलः,
श्राद्धचन्द्रिकायाम्
हनुमूलादधः कर्णौ लम्बौ तु परिकीर्तितौ । गुलौ त्र्यगुलौ शस्ताविति शातातपोऽब्रवीत् ॥
ब्राह्मे
भोक्तुं श्राद्धे च नार्हन्ति दैवोपहतचेतसः । षण्टो मूकश्च कुनखी खल्वाटो दन्तरोगवान् || श्यावदन्तः पूतिनासश्छिमाङ्गश्चाधिकाङ्गुलिः । गळरोगी च गडुमान् स्फुटिताङ्गश्च सज्वरः ।। खञ्जन्पुरमण्ठाश्च (१) ये चान्ये दीनरूपिणः । खल्वाटः = केशरहितः । प्रतिना सोऽक्षिरोगी । गड्डुमान् कुब्जः । खञ्जः =कुण्ठः । नूपुरो= यौवने श्मश्रुरहितः । स्कान्देकाणाः कुण्ठा इत्युपक्रम्य
एतान्विवर्जयेत्माज्ञः श्राद्धेषु श्रोत्रियानपि । इति (२) ।
नन्दिपुराणे -
ब्रह्मज्ञानोपदेशेन ये कुर्वन्यशुभं महत् । सर्वकर्मसु वयस्ते चाण्डाला द्विजरूपिणः ॥ कालिकापुराणे
अनाश्रमी तु यो विप्रो जटी मुण्डी वृथा च यः । वृथाकाषायधारी यः श्राद्धे तं दूरतस्त्यजेत् ॥
सौर पुराणे,
अङ्गवङ्गकलिङ्गांश्च सौराष्ट्रान्गुर्जरांस्तथा । आभीरान् कोङ्कणांश्चैव द्राविडान्दक्षिणायनान् ॥
(१) मण्ठा=वक्रजङ्गाः ।
(२) एतान् विवर्जयेद्विप्रान् प्रातः श्राद्धेष्वश्रोत्रियान् । इति पाठः श्राद्धमयूले ।
!