SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् पारिकाकुटकप्लक्षक्रकचानि क्रमाजगुः । कदलीचूतपनसजम्बूपुन्नागचम्पकाः । अलाभे मुख्यपात्राणां ग्रायाः स्युः पितृकर्मणि ॥ इति । तत्र कदलीपत्रं तु न ग्राह्यम् । “न जातीकुसुमानि दद्या. भकदलीपत्रम्" इत्यङ्गिरोवचनात् , असुराणां कुळे जाता रम्भा पूर्वपरिग्रहे । तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥ इति क्रतुवाक्याच्च । अक्षता गोपशुश्चैव श्राद्धे मांसं तथा मधु । देवराच मुतोत्पत्तिः कलौ पञ्च विवर्जयेत् ॥ इति निगमवाक्येन कलियुगे मांसमधुनोः श्राद्ध निषेधाचद्विचारो न प्रदर्शित इति सङ्केपः। ग्रन्थविस्तरभिया बहु नोक्तं सारतस्तु निखिलः प्रदर्शितः । प्रायशो नहि रुचिर्विपश्चितां विस्तरे भवति सारभागिनाम् ॥ अथ विश्वेदेवव्यवस्था । हेमाद्रावादित्यपुराणे, विश्वेदेवो क्रतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ । नित्ये नान्दीमुखे श्राद्ध बमुसत्यौ च पैतृके ॥ नवानलम्भने देवी कामकालौ सदैव हि । अपि कन्यागते सूर्ये काम्ये च धूरिलोचनौ ॥ पुरूरवाईवौ चैव विश्वेदेवौ च पार्वणे । इति । इष्टिश्राद्धमाधानसोमयागादौ क्रियामाणं वृद्धिश्राद्धम् । नान्दीमुखं गर्भाधानादौ क्रियमाणं वृद्धिश्राद्धम् । कन्यागते सूर्ये कन्यासक्रान्त्यन्तर्गतमहालये क्रियमाणम् । काम्यं पुत्रादिफलोदेशेन क्रियमाणम् । पावर्णमत्रावश्यकबुद्ध्या क्रियमाणं दर्शादि. श्राद्धम् । सर्वास्विष्टिषु सर्वेषु कर्मान-श्राद्धेष्विति हेमाद्रिः ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy