SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १८ ब्रह्मवैवर्ते, जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया चापि विप्रत्वं त्रिभिः श्रोत्रिय उच्यते । इति । स एव, यत्नेन भोजयेच्छ्राद्धे बहूचं वेदपारगम् । शाखान्तगमथाध्वर्यु छन्दोगं वा समाप्तिगम् ॥ एषामन्यतमो यस्य भुञ्जीत श्राद्धमचितः । पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ।। इति । कौ - असमानप्रवरको सगोत्रस्तथैव च । असम्बन्धी च विज्ञेयो ब्राह्मणः श्राद्धसिद्धये ॥ गारुड़े - श्राडचन्द्रिकायाम् श्राद्धेषु विनियोज्यास्ते ब्राह्मणा ब्रह्मवित्तमाः । ये योनि गोत्रमन्त्रान्तेवासि सम्बन्धवर्जिताः ॥ शातातप: भोजdardi दैवे पित्र्ये च कर्माणि । अनन्तमक्षयं चैव फलं तस्येति वै श्रुतिः ।। ब्रह्मवैव विप्रान्गृहस्थाम्बेदार्थविदो निरभिमानिनः । पत्नीपुत्रसमायुक्तान् श्राद्धकर्माणि योजयेत् ॥ इति । अथ मध्यमाः । हमाद्रौ गार्ग्यः, नैकगोत्रे हविर्दद्याद्यथा कन्या तथा हविः । अभावे ह्यन्यगोत्राणामेकगोत्रांस्तु भोजयेत् ॥ अमराभावे समानप्रवरानपि ॥ मनु:-- मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विपतिं बन्धुमृत्विग्याज्यश्चि भोजयेत् ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy