SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्राडे योग्या ब्राह्मणाः । १७ व्रतादेशात्” इति तदकृतचूडविषयम् ! शूद्रस्य सदामश्राद्धमेव न पक्कान्नश्राद्धम् सदा चैत्र तु शूद्राणामामश्राद्धं विधीयते ( १ ) । इति सुमन्तुक्तेः । पृथ्वी चन्द्रोदये विशेषमाह - वृद्धपराशरः, आमान्नेन तु शूद्रस्य तूष्णीं च द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ || इति दिकू । इति श्रीभारद्वाजमहादेव भट्टात्मजदिवाकर भट्टविरचितायां श्राद्ध चन्द्रिकायामधिकारिनिर्णयः अथ श्राद्धयोग्या ब्राह्मणाः । तत्रादौ ब्राह्मणप्रशंसामाहहेमाद्रौ भविष्यपुराणे, मनुः ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिज्जगत्रये ॥ येषां प्रसादात्सुलभमायुर्धर्मः सुखं धनम् । श्रीर्यशः स्वर्गवासश्च तान्विप्रानर्चयेद्बुधः ॥ वेदविद्याव्रतस्त्रातान् श्रोत्रियान्गृहमेधिनः । पूजयेद्धव्यकम्पेन विपरीतांस्तु वर्जयेत् ॥ गृहमेधिनो=गृहस्थाः । श्रोत्रियलक्षणम् ( १ ) अत्र- न पक्वं भोजयेद्विप्रान् सच्छूद्रोऽपि कदाचन । भोजयन् प्रत्यवायी स्यान्न च तस्य फलं भवेत ॥ इत्याधिकं पुस्तकान्तरे | ३ भा० चं०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy