________________
श्राद्धचन्द्रिकायाम्
___ तत् प्रथमवर्षकृतचूडविषयमिति माधवमदनरनादयो बहनः माचः । श्रीमातामहा अध्येवम् । केचित्तु दत्तकादि. परोऽयं निषेध इत्याहुस्तन्न मनोहरम् । दत्तकादीनामुपनीला. नामेवाधिकारात । तथाचस्कान्दे,
पित्रोरनुपनीतोऽसौ विदध्यादौरसः सुतः ।
और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति । प्रथमवर्षकृतचूडस्याप्यनिदानमात्रं समन्त्रकमन्यवमन्त्रकम्
असंस्कृतेन पल्या च ह्यमिदानं समन्त्रकम् । कर्तव्यमितरत्सर्वं कारयेदन्यमेव हि ॥ इति कात्यायनवचनात् । (१)अकृतचूडस्यामिदानमपि न भवति ।
पुत्रश्चोत्पचिमात्रेण संस्कुर्याणमोचनात् । ..
पितर(२)नान्दिकाचौलापैतृमेधेन कर्मणा ॥ ___ इति सुमन्तुवचनादिसलं विस्तृत्या । दत्तकाभावे पनी पूर्वोक्तवाक्यात् ।
सायात - अपुत्रा पुत्रवत्पनी पुत्रकार्य समाचरेत् । इत्युक्तेश्व(३),
(१) अत्र-पत्न्या कारयेदन्यमेव हीत्युक्ति सामर्थ्याभावे बोध्या। वस्यमाणपचनविरोधात् इत्यधिकः पाठः पुस्तकान्तरे ।
(२) अत्र न आ आदिकात इति च्छेदः कार्यः। एवं च पुत्रो वर्षाधिकवयस्क एव पितृमेधकर्मण्यधिकारी न तु ततः पूर्वम् । पतर वचनमौरसविषयकमेवेतिकालादर्शकारः। . ..
पित्रोरतुपनीतोअप विदध्यादौरसः सुतः।
और्वदेहिकमन्ये तु संस्कृताः श्राद्धकारिणः ॥ इति स्कान्दवचनात् । दत्तकादीनां तूपनीतानामेवाधिकारः। (1) अत्र-अपुत्रे प्रस्थिते कर्ता नास्ति चेच्छ्राद्धकर्मणि।
तत्र पल्यपि कुर्वीत लापिय पार्वणं तथा ॥
-