________________
श्राद्धाधिकारिनिरूपणम् ।
माज्ञवल्क्योऽपि --
लोकानन्त्यं दिवः पाप्तिः पुत्रपौत्रप्रपौत्रकैः । इति ।
अन्यचापि
पुत्रेण लोकायति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । औरसपुत्रस्य स्वनुपनीतश्वापि श्रद्धाधिकारमाह-वृद्धभतुः,
कुर्यादनुपनीतोऽपि श्राद्धमेको हि यः सुतः । पितृयाहुति पाणौ जुहुयाद्ब्राह्मणस्य सः ॥ इति । एको मुख्य: औरस इति यावत् । पृथ्वीचन्द्रोदये सुमन्तुरपि -
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाव्रतस्थो वा एक एव भवेद्यदि । इति । अनुपनीतं विवृणोति -
स एव,
अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमधिकम् । यद्यसौ कृतचूड़ः स्याद्यदि च स्यात् त्रिवत्सरः ॥ इति । अत्र विशेषणद्वयमपि विवक्षितं विधेयकर्तृगतत्वात (१) ।
पशु
व्याजपादः,
कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोश्चारं न कारयेत् ॥ इति,
पच्च स्मृतिसङ्ग्रहे
कृतचूढोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् । उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥ इति,
(१) अत्र - एतेनेोपनीत पौत्र सत्वेऽप्युक्तलक्षणामुपनीत-पुसद्भावे स एवाधिकारी भवतीति सिद्धमित्यधिकः पाठः पुस्तकान्तरे ।