________________
श्राद्धे विहितनिषिद्धदेशाः। . १ मतके सूतके चैव ग्रहणे चन्द्रसूर्ययोः । छायायां कुञ्जरस्याय भुक्त्वा तु नरकं व्रजेत् ॥ इति ।
इति श्राद्धकालाः।
अथ श्राद्धदेशाः। विष्णुधर्मोत्तरेदक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽपि वा। भूसंस्कारादिसंयुक्ते श्राद्धं कुर्यात्प्रयत्नतः ॥ .
दधिणाप्रवणे-दक्षिणतो निम्ने । भूसंस्कारो गोमयेनोपलेपादिः। प्रभासखण्डे
वीर्यादष्टगुणं पुण्यं स्वगृहे ददतः शुभे!। श्रीमहाभारते
तस्य देशाः कुरुक्षेत्रं गया गङ्गा सरस्वती ।। प्रभासं पुष्करं चेति तेषु श्राद्धं महाफलम् ॥ इति । .अथ निषिद्धदेशाः।
गोगजाचादिष्ठेषु कृत्रिमायां तथा भुवि । ' न कुर्याच्छादमेतेषु पारक्यासु च भूमिषु ॥ . कृत्रिमायाम् अहाळिकायाम् ।
यम:
परकीयप्रदेशेषु पितृणां निर्वपेत्तु यः। तभूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥
सं कृमिहतं क्लिनं सङ्कीर्णानिष्टगन्धिकम् । देशं त्वनिष्टवान्दं च वर्जयेज्छादकमणि ॥ इति ।