________________
श्राद्धचन्द्रिकायाम्
राजा तु लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ इति ।
हारीत:--
तीर्थे द्रव्योपपत्तौ च न कालमवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सः श्राद्धं विधीयते ॥ इति । तीर्थे = वेण्यादौ । द्रव्योपपत्तौ = अलभ्यश्राद्धीयद्रव्यप्राप्तौ चामावास्यापराह्नादिरूपः कालो न प्रतीक्षितव्य इत्यर्थः ।
अत एव ---
देवीपुराणे,
अकालेऽप्यथवा काले तीर्थश्राद्धं सदा नरैः । प्राप्तैरेव सदा कार्यं कर्त्तव्यं पितृतर्पणम् ॥ पिण्डदाने तु तच्छस्तं पितॄणां चातिदुर्लभम् । विलम्बो नैव कर्त्तव्यो नैव विघ्नं समाचरेत् (१) ॥ इति ।
गजच्छायोक्ता-
स्कन्दपुराणे,
यदेन्दुः पितृदेवस्ये इंसश्चैव करे स्थितः ।
याम्या तिथिर्भवेत्सा. हि गजच्छाया प्रकीर्त्तिता ॥ इति। पितृदैवत्यं = मघा | हंसो =रविः । करो=हस्तनक्षत्रम् | याम्या तिथिः त्रयोदशी ।
तथा,
i
इसे इंस स्थिते या तु अमावास्या करान्विता ।
सा ज्ञेया कुअरच्छाया इति बौधायनोऽब्रवीत् ।। अत्र भोक्तुर्दोष हेमाद्री -
ब्रह्मपुराणे,
(१) अत्र - प्राप्तैरेवेति आवश्यकस्नानतर्पणोपवासानन्तराम स्वर्थः । तावतो विलम्बस्य विध्यनुज्ञावशादप्रतिबन्धकत्वात् । इस्य किं पुस्तकान्तरे ।