________________
श्राद्धकालनिरूपणम् ।
कृष्णपक्षेषु पूर्वेधुरन्यष्टक्यं तथाष्टका ॥ इति । कात्यायन:
अन्वष्टकासु नवभिः पिण्डैः श्रादमुदाहृतम् ।
पित्रादिमामध्यं च ततो मातामहान्तिमम् ।। इति । .. अएकान्वष्टकाश्राद्धं नित्यमित्युक्तं हेमाद्रौ-- . विष्णुधर्मोत्तरे, . ___ अष्टकान्वष्टकास्तिस्रस्तथैव च नृपोचम! ।
एतानि श्रादकालानि नित्यानाह प्रजापतिः ॥ .. श्रादमेतम्यकुर्वाणो नरकं प्रतिपद्यते ॥ इति । अत एवान्वष्टकाबादं स्वतन्त्रं प्रधानं नाष्टकाङ्गम् । पूर्वेयुः श्रादं त्वष्टकाङ्गम् । फलवत्सन्निधावफलं तदङ्गमितिन्यायात (१) तिन इति पौषादिमासत्रयाभिप्रायेण । तथाच हेमाद्रौ-- कूर्मपुराणे,
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु । तिम्रश्चान्वष्टकाः पुण्या माघी पश्चदशी तथा ॥ इति । अयं त्रित्वपक्षस्त्वाश्वलायनान्यपरः "हेमन्तशिशिरयोश्चतुः पपरपक्षाणामष्टमीप्वष्टका" इत्याश्वलायनोक्तः । एतदकरणे प्रायश्चित्तम्ऋविधाने,
एभिर्घमिर्जपेन्मन्त्रं शतवारं तु दिने ।
अन्वष्टक्यं यदा शून्यं सम्पूर्ण याति सर्वथा ॥ इति । करणेऽभ्युदय उक्तो-- हेमाद्री,
(१) यथा "दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत' इत्यत्र 'स. मिधो यजति' 'तनुनपातं यजति' 'आज्यभागौ यजति' इत्यादिप्रयाजा. दीनां फलरहितानामपि फलवदाग्नेयसन्निधौ पठितत्वेनं दर्शपौर्णमा: साङ्गत्वं तदिहापीति बोध्यम् ।
२भा० ०