________________
श्राद्धचन्द्रिकायाम्
माध्या वर्षे प्रोष्ठपद्या अपरपक्षे" इत्याश्वलायनोतेः । वृद्धिरुक्ता । कृष्णपक्षः सर्वोऽपि । द्रव्यं श्राद्ध योग्य मन्नादि । ब्राह्मणसम्पत्तिः पङ्क्तिपावनादिसम्पत्तिः । सूर्यसङ्क्रम इत्येतावतैन सिद्धे पुनर्विषुत्रग्रहणं सूचयति सर्वसङ्क्रान्तिष्व समर्थोऽत्रैव श्राद्धं कुर्यादिति । अयनविषुवतोर्लक्षणं
हेमाद्री नागरखण्डे,
मकरे कर्कटे चैव यदा भानुर्वजेन्नृप ! | तदायनाभिधानश्च विषुवत्स विशिष्यते ॥ यदा स्यान्मेषगो भानुस्तुलां चाथ यदा व्रजेत् । तदा स्याद्विषुवाख्यस्तु कालश्चाक्षयकारकः ॥ इति । अमावास्या निर्णीता तिथ्यर्के ।
तथा
आषाढ्यामथ कार्त्तिक्यां माध्यां मन्वन्तरादिषु । युगादिषु च दुःस्वप्ने जन्म ग्रहपीडिते ॥ प्रोष्ठपद्यसिते पक्षे श्राद्धं कुर्वीत यत्नतः । प्रत्यब्दं तु प्रयत्नेन श्राद्धं कुर्यान्मृतानि ॥ इति । युगादयोऽप्युक्तास्तिथ्यर्के ।
शातातप:
――――――
नवोदके नवानेच नवप्रच्छादने तथा ।
पितरः स्पृहयन्त्यन्नपष्टकांसु मघासु च ॥ तस्मादद्यात्सदा युक्तो विद्वत्सु ब्राह्मणेषु च ॥ इति । नवोदके वर्षोपक्रमे इति शूलपाणि: । नवकूपादावित्यपरे । वस्तुतस्तु तीर्थोदके इति युक्तम् । वचनान्तरैकवाक्यत्वात् । नवप्रच्छादने= नवागारसम्पादने ।
आश्वलायनः, अपरेद्युरन्वष्टक्यमिति ।
ब्राह्मे
मार्गशीर्षे च पौषे च माघे पोष्ठे च फाल्गुने ।