________________
श्राद्धचन्द्रिकायाम्
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्ध्या पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ ये समाना इति द्वाभ्यामेतज्ज्ञेयं सपिण्डनम् । नियेन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि ॥ अमावास्यां यत्क्रियते तत्पार्वणमुदाहृतम् । क्रियते वा पर्वणि यत्तत्पार्वणमिति स्थितिः ॥ गोष्ठ्यां यस्क्रियते श्राद्धं गोष्ठी श्राद्धं तदुच्यते । बहूनां विदुषां सम्पत्सुखार्थं पितृ तृप्तये ॥ क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम् । शुद्ध्यर्थमिति तत्प्रोक्तं वैनतेय ! मनीषिभिः ॥ निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव कर्माङ्गं श्राद्धमुच्यते ॥ देवानुद्दिश्य यच्छ्राद्धं तदैविकपिहोच्यते ।
बृहस्पतिवाक्यं श्राद्धशब्दस्य योगप्रदर्शनार्थम् । तेनान्यत्र प्रयोगाभावाद्योगवशाश्च योगरूढोऽयं श्राद्धशब्द इति । यद्यपि च "तस्मा
·་
दुधां समासाद्य धर्मं धर्मात्समाचरेत्" इत्यादि विष्णुधर्मोत्तरादिवाक्यैः ः श्रदुधायाः सर्वकामार्थता तथापि 'श्रद्धान्वितः श्राद्धं कुर्वीत " इति कात्यायनेन विशिष्य श्रादधे श्रधायाः पुनरङ्गत्वोक्तः श्रद्धाविशेषोऽश्राङ्गमिति बोध्यम् । अत एव नदिपुराणे - " श्रधा माता तु भूतानां श्रद्धा श्रादधेषु शस्यते" इति तस्यास्तत्र प्राशस्त्यमुक्तम् । एवं च सकलस्मृत्याद्येकवाक्यतया श्राद्धस्य त्यागरूपत्वे सिद्धे यत्केचिदुब्राह्मणभोजनस्य श्रादुधपदार्थत्वमुक्तं तद्विचारणीयम् । न च - "पितृन् पितामहान्यक्ष्ये भोजनेन यथाक्रमम् । प्रपितामहान्सर्वाश्च तस्पितंश्चानुपूर्वशः ॥ इति ब्रह्माण्डपुराणे भोजनश्रवणात् तस्यैव भ्रा दूधत्वमितिवाच्यम् । भोजनपदस्य कर्मव्युत्पश्या-' प्रेतान्पितृनप्युद्दि श्य भोज्यं यस्प्रियमात्मनः । श्रद्या दीयते यत्तु तच्छ्राद्धं परिकीति. तम् ॥” इति मरीचिवाक्यैकवाक्यतया भोज्यपरत्वात् । अन्यथा प्रपितामहपित नुद्दिश्य भोजनाभावेन 'तत्पितॄंश्चानुपूर्वश' इत्यस्यासङ्गतिः स्थादिति । अस्मिन्मते तेषां लेपभागित्वेन त्यागोद्देश्यत्वाच विरोध इति ।