SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ नित्यादिश्राद्धलक्षणानि । कामाय विहितं काम्यमभिप्रेतार्थसिद्धये ।। पार्वणेन विधानेन तदप्युक्तं खगाधिप! ।। वृद्धौ यत्क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते । सर्व प्रदक्षिणं कार्य पूर्वाह्न तूपवीतिना ॥ --- ---- पिण्डदानं त्वङ्गमेव । "श्राद्धं कृत्वा प्रयत्नेन त्वराक्रोधविवर्जितः। उष्णमन्नं द्विजातिभ्यः श्रद्धया प्रतिपादयेत् ॥'' इत्यादिवाक्येषु आन न्तर्वार्थकत्वाप्रत्ययेनानोत्सर्ग एव श्राद्धपदप्रयोगात् "त्रिषु पिण्डः प्रवर्तते" इति चाङ्गमुखेन प्रधाननिर्देशः । पिण्डपितृयज्ञविषयं वा इत्याहुः। ननु त्यागो न श्राद्धं किन्तु पितृनुद्दिश्य विप्रेभ्यो दत्तं श्राद्धमुदा. हृतम्" इति ब्रह्मपुराणात् "श्रद्धयां दीयते यस्मात्तच्छाद्धं परिकी. तितम्" इति मरीचिवचनात् , “प्रमीतस्य पितुः पुत्रौः श्राद्धं देयं प्रयत्नतः" इतिस्मृत्यन्तरवचनाच्च दानकर्मणा द्रव्यस्यैव श्राद्धत्वाव. गमात त्यज्यमानं द्रव्यमेव श्राद्धम्। एवं च "श्राद्धमाम तु कतव्य. मिति वेदविदां स्थितिः" इति द्रव्यसामानाधिकरणयमप्युपपद्यते । न चैवमादिषु श्राद्धशब्दस्य लक्षणया द्रव्यपरत्वं प्रमाणाभावात् इति चेत्, न । 'आद्धं कुर्यात्' इत्यादौ द्रव्यस्य सिद्धत्वेन साक्षाद्भावना. वयासम्भवात् । क्रियापरत्वेन साक्षादन्वये सम्भवति अनुपस्थित त्यागादिक्रियाद्वारा परम्परान्वयस्यानौचित्यात् । 'सोमेन यजेत' इत्यादौ तु बलवत्या प्रसिद्ध्या द्रव्यपरत्वे सोमपदस्यावधारिते सोमस्य श्रौतधात्वर्थद्वारा भावनान्वयो युक्तो भवति । प्रकृते तु श्रा. द्धशब्दस्य द्रव्ये प्रसिद्ध्यभावादश्रुतधात्वर्थद्वारकपरम्परान्वयोऽनु. चित एव। किश्च कुशयवतिलगोधूममांसादिद्रव्यं पित्रादिभ्यः श्रद्धया देयमित्यादिना श्राद्ध विधित्सितद्रव्यस्य प्राप्तत्वात् तत्प्रख्यन्यायेना. ग्निहोत्रादिपदवत्कर्मनामधेयतैवोचिता । किश्च नित्यनैमित्तिकका म्यभेदा अग्रे वक्ष्यन्ते ते च प्रायशः कर्मण्येव प्रसिद्धा इत्यतोऽपि कर्मः नामता। अत एवापस्तम्बेन "श्राद्धशब्दं कर्म"इत्युक्तम् । • यत्तु-"प्रमीतस्य पितुः पुत्रैर्देयं श्राद्ध प्रयत्नतः" इति श्राद्धस्य देय. स्वमुक्तम् , यश्च-"श्राद्धमामं तु कर्तव्यमिति वेदविदां स्थिति' इति द्रव्यसामानाधिकरण्यम् तत् श्राद्धशब्दस्य लक्षणामभिप्रेत्य । एवं च कर्मनामत्वे सिद्धे "श्रद्धया दीयते यस्मात्तेन श्राद्धं निगद्यते” इति
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy