________________
श्राद्धचन्द्रिकायाम्
एषां लक्षणानि भविष्यपुराणेअहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्त्तितम् । वैश्वदेवविहीनं तदशक्ताबुदकेन तु ॥ एकोद्दिष्टं च यच्छ्राद्धं तनैमित्तिकमुच्यते । तदध्यदैवं कर्त्तव्यमयुग्मान्भोजयेत् द्विजान् ॥
एतेन - " नित्यश्रद्धमदैवं स्यादर्ध्यपिण्ड विवर्जितम्” इतिहारीत. वचनान्नित्यश्राद्धे, "भौजङ्गीं तिथिमासाद्य यावश्चन्द्रार्कसङ्गमम् । तत्रापि महती पूजा कर्तव्या पितृदेवते ॥ ऋक्षे पिण्डप्रदानं तु ज्येष्ठपुत्री विवर्जयेत् । " इति देवीपुराणान्मघाश्राद्धे च पिण्डदाननिषेधो ऽ. वगम्यते । न चाप्राप्तस्य निषेधो घटते, प्राप्तिश्चात्रातिदेशेन, सचाङ्गानामेवातः पिण्डदानमङ्गम् । या तु - "अग्नौ हुतेन देवस्थाः पितृस्था द्विजतर्पणैः । नरकस्थाश्च तृप्यन्ति पिण्डैर्दत्तैस्त्रिभिर्भुवि ॥” इति पिण्डदाने फलश्रुतिः सोऽर्थवादः । "अङ्गेषु स्तुतिः परार्थत्वात्" इति न्यायात् । गयादी पिण्डदानमात्रविधिस्तु अङ्गभूतपिण्डदानात्कर्मान्तरं प्रकरणान्तरस्थत्वादिति शूलपाण्याद्युक्तं परास्तम् । पूर्वोदाहृतवाक्यार्थपर्यालोचनया उभयोरपि प्राधान्ये सिद्धे नित्यश्राद्धादौ श्रा• दविधिनैवोभयप्राप्तावेकतर पर्युदासोपपत्तेः । तस्मात्सुतमनोत्सर्गपिण्डदानयोः प्राधान्यमिति ।
केचित्त, "अग्नौ हुतेन" इत्यादिवचनेऽग्नौकरणस्यापि फलश्रवणात्तदपि प्रधानम् अग्नौकरणोद्देश्यानां कव्यवाहनादीनां पितृपदेन सङ्ग्रहात्पाणिहोमपक्षे ब्राह्मणाधिकरणकप्रतित्तिसम्भवाश्चेत्याहुः ।
शूलपाणिस्तु सम्बोधनपदोपनीतान् पित्रादींश्चतुर्थ्यन्त पदेनोद्दिश्य हविस्त्यागः श्राद्धमित्याह । अत्र फलभागित्वरूपोद्देश्यतानि वृत्यर्थं सम्बोधनपदोपनीतानितिविशेषणम् । पित्रादीनित्यादिपदेन देवादयोऽपि विवक्षिताः । तेन देवश्राद्धादावपि श्राद्धशब्दो मुख्य एवेति
मैथिलास्तु - वेदबोधित पात्रालम्भपूर्वक विस्त्यागः श्राद्धम् । अत्रालम्भो न श्राद्धविशेषणम् । अन्यथा तस्य वेदबोध्यत्वाभावेन तद्वतिश्राद्धस्य वेदाबोध्यत्वापत्तेः किन्तूपलक्षणम् | उपलक्ष्यश्च स्वतो विलक्षणस्यागविशेष एव । एतेन यम्मत एकोद्दिष्टे पात्रालम्भो नास्ति तन्मते तत्र नाव्याप्तिः । नापि सम्न्यासिकर्तृकात्मादिश्राद्धेऽपि सा । " दैविकं दशमं स्मृतम्” इति विभागोऽपि च समञ्जसो भवति ।