________________
श्राद्धभेदाः तत्पशविधमित्याहआश्वलायनः, काम्यं नैमित्तिकं वृद्धिरेकोदिष्टं च पावणम् ।'
श्रादं पश्चविध प्राहुर्विप्राः शास्त्रस्य वेदिनः ॥ इति । विश्वामित्रस्तु तस्य द्वादशभेदानाहनित्यं नैमित्तिकं काम्यं वृद्धिश्रादं सपिण्डनम् । पार्वण चेति विज्ञेयं गोष्ठयां शुद्ध्यर्थमष्टम् ॥ कर्माकं नवमं प्रोक्तं दैविकं दशम स्मृतम् ।
यात्रास्वेकादशं प्रोक्तं पुष्टयर्थं द्वादशं स्मृतम् ॥ इति । रथापिवा।" इति च्छन्दोगपरिशिष्टस्वरसात्तस्य श्राद्धभिन्नत्वप्रतीतेः तथा शिष्टव्यवहाराभावाच । पिण्डपितृयज्ञस्तु श्राद्धमेव । “तच्छाद्ध. मितरदमावास्यायाम्' इति गोभिलवचनेन तस्यापि श्राद्धत्वोक्त। तच्छब्देन पिण्डपितृयज्ञपरामर्शात् । उदाहृतवाक्यैरपि तस्य श्राद्धस्व. प्रतीतिः । "पिण्डांस्तु गोऽजविप्रभ्यो दद्यादग्नौ जलेऽपि वा" इत्यनेन याज्ञवल्क्यवचनेन तस्यापि ब्राह्मणप्रतिपत्त्यङ्गकत्वसिद्धः । प्रमीता. नामुद्देश्यत्वं च देवतात्वरूपम् । तेन फलभागितया तदुददेश्यकब्राह्म णसम्प्रदानकान्नत्यागे नातिव्याप्तिः। अन्नपदस्य च भोज्यस्थानीय द्रव्योपलक्षकत्वान्न हिरण्यश्राद्धादावव्याप्तिः । यस्तु नृसिंहपुराणे"दिव्यपितृभ्यो देवेभ्यः स्वपितृभ्यस्तथैव च । दत्त्वा श्राद्धमृषिभ्य. व मनुष्येभ्यस्तथात्मनः ॥” इति देवादिश्राद्धे श्राद्धशब्दः समासाग्नि. होत्रवद्रौणस्तद्धर्मप्राप्त्यर्थः। एवं च "दैविकं दशमं स्मृतम्" इतिवक्ष्य. माणश्राद्धविभागोऽपि गौणमुख्यसाधारण एव । नच तत्रापि मुख्यता किं न स्यादिति वाच्यम् । श्राद्धपदव्युत्पादकेषुदाहृतवाक्येषु प्रेतपदपितृपदयोरेव श्रवणात्प्रमीतमात्रकोद्देश्यकश्राद्धस्यैव मुख्यत्वावगः मात् । एवं चामोत्सर्गपिण्डदानयोईयोरपि प्रत्येकं श्राद्धवं सिद्ध्यति । मत एव ब्रह्मपुराणेऽन्नोत्सर्गमुक्त्वा "श्राद्धं कृत्वा प्रयत्नेन" इत्यन्नो. स्सगेमाने श्राद्धपदप्रयोगो दृश्यते । अत एवाहिताग्नेः "पित्रचनं पि. एडैरेव' इति निगमोऽप्यशको केवलं पिण्डदानमाह । मघाश्रा. दादौ पिण्डदानं विना श्राद्धसिद्धावपि न तस्य प्राधान्यहानिः । प्रधानस्यैव सतो वचनेन तत्र पर्युदासात् ।