________________
२.
श्राद्धचन्द्रिकायाम्
वायुपुराणे - देवकार्यादपि सदा पितृकार्यं विशिष्यते । देवाताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् । इति ।
अथ श्राद्धलक्षणम् ।
माघषीये ब्रह्माण्डपुराणे
देशे काले च पात्रे च श्रद्धया विधिना तु यत् । पितृनुद्दिश्य विप्रेभ्यो दक्षं श्राद्धमुदाहृतम् ॥ इति । हेमाद्री बृहस्पतिस्मृतावपि -
संस्कृतं व्यञ्जनाढ्यं च पयोदधिघृतान्वितम् । श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते ॥ (१)
(१) अत्र श्राद्धलक्षणं प्रकृत्य षीरमित्रोदयीयश्राद्धप्रकाशे सुविचा. रितम् । सुपयोगिताऽविकलः स सन्दर्भः समुपस्थाप्यते । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच, प्रजानिःश्रेयसाथं तत्र पितरो देवताः, ब्राह्मस्वाहवनीयार्थे मासि मासि कार्यमपरपक्षस्यापराह्नः श्रेयान इत्या पस्तम्बः । श्राद्धमिति शब्दो वाचको यस्य तत्तथा । त्यक्तद्रव्यप्रतिपश्यधिकरणत्वेनाहवनीयकार्यार्थत्वं ब्राह्मणस्य । अपरपक्षस्य कृष्णपक्षस्य इति तदर्थः । तथा "प्रेतान् पितृनप्युद्दिश्य भोज्यं यत्प्रियमारमनः । श्रद्धया दीयते यत्तु तच्छ्राद्धं परिकीर्तितम् " ॥ इति मरीचि - वचनम् । प्रेतान् = अकृतसपिण्डीकरणान् । पितॄन् = कृतसपिण्डनान् । दीयते यत्तु = अत्र यदिति क्रियाविशेषणम् । तथाच तादृशं यद्दानं तच्छ्राद्धमित्यर्थः । एवं चात्रोक्तापस्तम्ब - मरीचि - बृहस्पति-ब्रह्मपुराणीयवचनानां पर्यालोचनया प्रमीतमात्रोद्देश्यकान्न त्यागविशेषो ब्राह्मणाद्यधिकरणकप्रतिपत्यङ्गकः श्राद्धपदवाच्यः प्रतीयते । एवं च गन्धादिदानानौकरण विकिरदानानां न श्राद्धत्वं किन्तु तदङ्गत्वमेवेति ध्येयम् । ब्राह्मणप्रतिपत्तेरङ्गत्वं च क्काचित्कं विवक्षितम् । तेनाग्म्या. दिप्रक्षेपाङ्गके नाव्याप्तिः । तदङ्गत्वं च वाचनिकातिदेशव्यतिरिक्तप्रमाविहितं प्राह्यम् । तेन "पिण्डवश्च पश्चिमा प्रतिपत्तिः" इतिच्छन्दोगवचनातिदिष्टतदङ्गके पित्र्यबलिदाने नातिव्याप्तिः । न च तच्छ्राद्धत्वेन कुतो न सङ्ग्रह्यत इति वाच्यम् । श्राद्धं वा पितृयज्ञः स्यास्पियो बलि
1