________________
अथ श्राद्धचन्द्रिका |
श्रीगणेशाय नमः ॥ जानकीनयनयुग्मगोचरं मानिनां नयनयोरगोचरम् । नीलमेघ रुचिरच्छविं सदा भावये मनास राघवं मुदा ॥१॥ यत्की धवलीकृतं त्रिभुवनं नाम्ना जगत्पावितं यन्मूर्द्धा विनिवारितं बहुतरं पापं महापापिनाम् । यद्वन्थैः कठिनं जगाम कृशतां द्वैतं व्रतादिस्थळे तस्याहं शिरसा नमामि चरणौ श्रीनीलकण्ठप्रभोः ॥ २॥ नवा साम्बं तथा तातं जनयत्रीं गुरूनपि । दिवाकरेण विदुषा तन्यते श्राद्धचन्द्रिका ॥ ३ ॥ तत्रादौ श्राद्धप्रशंसा हेमाद्रौ कूर्मपुराणे - योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः । व्यपेतकल्मषो नित्यं याति नावर्त्तते पुनः ॥ विष्णुधर्मोत्तरे
श्राद्धकाले ताथानेन पिण्डनिर्वपणं तथा । पितॄणां ये करिष्यन्ति तेषां पुष्टिर्भविष्यति ॥ पैतृपैतामहः पिण्डो वासुदेवः प्रकीर्त्तितः । पैतामहश्च निर्दिष्टस्तथा सङ्कर्षणः प्रभुः । पितृपिण्डस्तु विज्ञेयः प्रद्युम्नश्चापराजितः || आत्मानिरुद्धो विज्ञेयः पिण्डनिर्वपले बुधैः । इति । पितृपितामहस्याये पैतृपैतामहः प्रपितामहपिण्ड इत्यर्थः
तत्रैव देवलः,
देवो यदि पिता जातः शुभकर्मानुयोगतः । तस्यानममृतं भूत्वा देवत्वेऽप्यनुगच्छति ॥
;