SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५२ श्राद्धचन्द्रिकायाम् पितृपात्र माच्छाद्य पुत्रकामनायां तज्जलेन मुखमङ्क्त्वा पितृभ्यः स्थानमसीति मन्त्रेणोत्तरतो न्यग्बिलमासादयेत् । ततः प्राचीनावीती अपः प्रदाय विश्वेदेववगन्धाद्याच्छादनान्तं पित्रर्चनं (१) विधायैतेऽत्र गन्धेति पूर्ववदेवोक्त्वा पात्रासादनं कुर्यात् । तत्रादौ यज्ञो पवीती वैश्वदेविकद्विज भोजनस्थाने गोमयादिना नैर्ऋती दिशमारभ्येशानीपर्यन्तं प्रादक्षिण्येन पुननैऋतीमारभ्येशानीपर्यन्तं चतुरस्रं मण्डलं यवकुशयुतं विधाय तत्र भोजनपात्राण्युपपात्र सहितान्यासाथ प्राचीनावीती पित्र्यर्थद्विजभोजनस्थाने ऐशानीमारभ्य नैर्ऋतीपर्यन्तममादक्षिण्येन पुनरैशानीमारभ्य नैर्ऋतपर्यन्तं वर्त्तलं मण्डलं तिलकुशयुतं विधाय पात्राण्यासाद्य रक्षोनिबर्हणार्थं पात्रसमन्ततो भस्मपरिधिं कुर्यात् । तत्रादौ देवे उपवीती "पिशं. गमृ०ईय" इति विप्रवामहस्तमारभ्य भोजनपात्रस्य परिि कृत्वा प्राचीनावीती पैत्रे "रक्षाणो अग्रेतव० द्वाघानं" इति विप्रदक्षिणहस्तमारभ्य भोजनपात्रस्य परिधिं कृत्वा उपवीती आचम्य देवद्विजकरशुद्धिं विधाय प्राचीनावीती पितृद्विजकरशुद्धिं विधायाम करणं कुर्यात् । तद्यथा विमपाणावनौकरणं करिष्ये कुरुष्वेत्यभ्यनुज्ञातोऽवदानधर्मेणान्नमादाय विपाणौ 'सोमाय पितृमले स्वधा नमः सोमाय पितृपत इदं न मम' 'अग्नये कव्यवहानाय स्वधा नमः अग्नये कव्यवाहनायेद न मम ततो घृतेन पात्रमभिधारयेत् । उ० दैवे "मूर्धानं दिनो अरर्ति० यन्तदेवाः" प्रा० पैत्रे " आमासुपकमै०ण से बृहत् " तत (१) अर्चनं च - अपवित्रकरे गग्धैर्गन्धद्वारेति पूजयेत् । गन्धद्वारेति वै गन्धं मायनेत्येव पुष्पकम् በ धरसीत्यधुना धूपमुद्दीप्यस्वेति दीपकम् ॥ युवं वस्त्राणि मंत्रेण वस्त्रं दद्यात्प्रयत्नः ॥ इति श्राद्धसङ्कहोकप्रकारेण । ·
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy